SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ર Jain Education International लीलावतीसारे प्रेष्यतां धारणीदेवी तत्पार्श्वे यदि लज्जया । मुञ्चेत् ता भद्रमेवं स्यान्न चेत् कार्यं ततोऽन्यथा ॥ २८२ देवी हूता ततो राज्ञा तद्वृत्तान्तो न्यगद्यत । तद् गच्छ तं शाधि सम्यक् चेन् मुञ्चेत्तात् तदा शुभम् ॥ २८३ न चेत् तदाभिदध्यास्तमपसर्प नृपावनेः । विनंक्ष्यस्यन्यथाऽवश्यं देव्यथागात् तदन्तिकम् ॥२८४ दत्तासना ज्योक्कृता च पुत्रेणागमकारणम् । पृष्टाऽऽचष्ट प्रसूर्वत्स राज्यं प्रेलय मांहिणा ॥ २८५ नीतिमन्तं भजेल्लक्ष्मीर्नीतिमुक्तं तु मुञ्चति । प्रजादारापहाराच्च दुर्नीतिः पुत्र नापरा ॥ २८६ त्वया च विमलमतिश्रेष्ठिनोऽपहृताः स्त्रियः । तदनीतेविरक्तास्त्वां त्यक्ष्यन्ति सचिवादयः ॥ २८७ ततश्च -- स्वपुत्रराज्याभिषेकमन्या द्रक्ष्यन्ति धन्यिकाः । वत्सराज्याभिषेकं तु नाहं द्रक्ष्याम्यधन्यिका ॥ २८८ सेत्युक्त्वा बाष्पवाप्यक्षी क्षीणेन्दुवदनाऽभवत् । जगाद वज्रहृदयो वज्रसिंहोऽथ तां प्रति ॥ २८९ दारानपहरिष्यामि नापरस्यां च जातुचित् । विमलस्तु मम वैरी राज्ञे मद्दोषभाषणात् ॥ २९० धर्मश्चायं नरेन्द्राणां यदुष्टानां विधीयते । - निग्रहोऽत्युप्रदण्डेन शिष्टानां परिपालना ॥ २९१ किञ्च मातस्तावदाह तातः किमिति साऽवदत् । वत्स तेनैव ते पार्श्वे प्रेषिताहमिहागमम् ॥ २९२ तेनादिष्टं मन्मुखेन वत्स त्वां प्रति सम्प्रति । परदारान् विमुञ्चाशु मुञ्च वा मम मेदिनीम् ॥ २९३ ततः पुत्रोऽवदन्मातरेत्येकाक्यत्र चेत् पिता । तदा तदाज्ञया मुञ्चे तानहं धारयामि वा ॥ २९४ For Private & Personal Use Only [ २८२-२९४ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy