________________
२७१-२८१]
पञ्चम उत्साहः तत् कुमार गुणार्थ ते सौधस्थितिमवग नृपः । वणिक्कीटेषु किं च द्वज्रसिंहस्य नोचिता ॥२७१ कुमारः -- कोपाटोपो न मे ताग वणिक्ष्वेषु प्रसर्पति । यादृक् तातावमतस्य स्वस्योपरि सुदुःसहः ॥२७२ मन्त्री -- कुमार वणिजेष्वेषु कुरु तद्यत् चिकीर्षसि । देवपादाः पुनमन्तुं न ते सम्भावयन्त्यपि ॥२७३ कुमारः -- तातस्नेहकषं द्रष्टुं हठेन वणिजां वधूः । क्षिपाम्यन्तः पुरे पश्चाद् द्रक्ष्यते यद् भविष्यति ॥२७४ मन्त्री -- पश्येदनावृतान् यस्तु परदारान् नराधमः । गायव्यष्टशतं जप्त्वा सचेलः स जलं विशेत् ॥२७५ दृष्ट्वा योऽभिलषेत्पापः स गच्छेन्नरकं ध्रुवम् । योऽभिगच्छेत् पुनः सैष नरकेऽप्यप्रवेशकः ॥२७६ इत्यार्ष वचनं तेन कुमार वचनात् तव । मनो मे दूयतेऽत्यर्थमनुमन्ये कथं ततः ॥२७७ इत्यनादृत्य तद्वाक्यं बलादन्तःपुरेऽक्षिपत् ।। श्रेष्ठिनो विमलमतेः सैष भायां स्नुषां सुताम् ॥२७८ ततश्च मिलिताः पौराः राजानमुपतस्थिरे । राजाऽऽख्यदाख्यात कार्य ततो व्यज्ञपि नागरैः ॥२७९ देवास्य श्रेष्ठिनो भायां स्नुषां पुत्रीं च विड्वलाम् । कुमारोऽन्तःपुरेऽक्षप्सीत् तत् त्रायस्व प्रजापते ॥२८० सकष्टमथ राजोचे हाऽमुना लाञ्छितं कुलम् ।
तदमात्या द्रुतं ब्रत कर्तव्यमथ तेऽभ्यधुः ॥२८१ २७४.३. अंतपुरे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org