________________
२२
लीलावतीसारे
[२६१-२७० यद्वा न तदेवकुलं न कुलं न च राट्कुलम् । न खेलन्ति खलारिजा यत्राकारणवैरिणः ॥२६१ राजा - कुमार सद्गुणागार कः खलोऽस्ति तवोपरि । अभीष्टस्त्वं हि सर्वेषां सर्वदा x x नात्मवत् ॥२६२ कुमारः - तदलीकं व्यलीकं मेऽमीभिः कूटकिराटकैः । पुरतस्तातपादानां कि प्राकाशि रिपोरिव ॥२६३ राजावत्स त्वं हि प्रजापालस्तदागस्यपि मा कुपः । न चोक्तं तैय॑लीकं ते किन्तु स्वक्षीणतैव हि ॥२६४ कुमारः - निवर्त्यति क्षीणतेयं नैषामत्र स्थिते मयि । ततस्त्यजाम्यहं देशं मयि तातः प्रसीदतु ॥२६५ राजा - कुमारेदृशंवादी(? दिन्) रोचते यत् तदाचर । एकच्छत्रां च वसुधां भुञ्जीथाः सागरावधि ॥२६६ असदभ्याख्यानमेतन् मय्यूचे यैः किराटकैः । दास्ये तत्फलमेषामित्युक्त्वा स्वौकः कुमार ऐत् ॥२६७ ततः कुमारो विमलबुद्धिं सक्रोधमभ्यधात् ।। मन्त्रिस्तातेन गणितो न समोऽस्मि किराटकैः ॥२६८ यदेतदर्थं . कुरुते छलवादं मया सह । तद्भोः किमिह कर्तव्यं मया वद विशारद ॥२६९ मन्त्री -- अविश्वासः श्रियां मूलं नारीषु तु विशेषतः ।
देवेषु पितृगुरुषु विश्वासोऽपि प्रशस्यते ॥२७० २६२.४. A few letters are blurred in the MS.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org