SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ २४९-२६० ] पश्चम उत्साहः Jain Education International प्रसन्नस्वामिवचसाभयेन लसन्मनाः । ततश्च विमलमतिः श्रेष्ठी श्रेष्ठमतिर्जगौ ॥२४९ प्रसादाद् देवपादानां सर्वाः प्रमुदिताः प्रजाः । विशेषतः श्रीकुमारदर्शनामृतपानतः ॥ २५० देवास्मद्वधूनामबलात्मनाम् । परं तदेव अस्मद्भाग्यविपर्यासात् कथञ्चन न जीर्यति ॥ २५१ तासामजीर्णाच्च दोषाः प्रादुःषन्ति प्रतिक्षणम् । तदजीणं यथा न स्यात् तथा देव प्रसीद नः ॥ २५२ अथ पृथ्वीश ऊचे तान् सुखयिष्यामि वो द्रुतम् । कुमार हंसोऽन्तः सौधसर एव हि रंस्यते ॥२५३ महाप्रसाद इत्युक्त्वा ते यथास्थानमैयरुः । दास्या च वज्रसिंहस्याभिदधे सर्वमप्यदः ॥ २५४ अथ प्रतीहारहृतः कुमारोऽगान् नृपान्तिके । नृपोऽलपद् वत्स वर्तेऽस्मि त्वज्जीवितजीवितः ॥ २५५ तत् त्वया सावधानेन स्थातव्यं सर्वतोऽपि हि । राज्यधुरा धुरीणस्य सम्भवन्त्य X X X वः ॥२५६ राजपाट्यां न गन्तव्यं यतस्तत्र समन्ततः । अलक्षित विपक्षेभ्यः स्युरपायाः अनेकशः ॥ २५७ कुमारः पुंस्पंजरविमध्यगः । सन्नद्ध एव यास्यामि महाबलस्याप्यगम्यः का वार्ताल्पबलद्विषः ॥२५८ राजा - तथाप्यश्वादितः पातेऽपायस्तदल (?) मेतया । तद्वत्स सौधमध्यस्थो विलस स्वैरलीलया ॥ २५९ कुमारः अकस्माद्देवपादानां केयं शङ्कापिशाच्यभूत् । किं वोपेक्ष्यः पुराऽभूवमहमेतर्हि तु प्रियः ॥ २६० २५८.२. पुस्य ०. २५९. A few letters are blurred in the MS. Lila. - 16 १२१ For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy