________________
लीलावतीसारे हूता वैद्याश्चिकित्सायै तामसाध्यां जगुस्ततः । सा कार्पटिकपङ्ग्वन्धदीनादीनामदाद् बहु ॥२३५ मध्यमेन गुणनेत्थं मनुष्यायुर्निबध्य सा । तेन रोगातिरेकेण कृच्छ्रकृच्छ्राद् व्यपद्यत ॥२३६ क्षितिप्रतिष्ठितपुरे जितशत्रोर्महीभुजः । कुक्षौ श्रीधारणीदेव्याः पुत्रोऽजायत सा ततः ॥२३७ वज्रसिंहाभिधः सोऽभूत् पारदृश्वा कलाम्बुधेः । प्रागजन्मदानतोऽतीवसुभगो वसुदेववत् ॥२३८ प्राग्भवे मोहाब्रह्मभ्यां तथायं वासितो यथा । तदर्शनेऽपि तद्वासः पुरस्त्रैणे व्यजम्भत ॥२३९ तथा हि बाल्यक्रीडाभिः क्रीडन्तं पुरबालिकाः ।। निरीक्ष्य तं निनिमेषाः पञ्चात्य इव जज्ञिरे ॥२४० यौवनश्रीरभूद् यावत् तं वुवूर्षुमना मनाक् । अमनागभस्तावत् तं तरुण्यो वुवूर्षवः ॥२४१ तेनोपयम्यमानासु राजकन्यासु, लीलया । ऊढा अनूढा वृद्धाश्च तेनोपयममौषिषुः ॥२४२ पथा सञ्चरते येन राजपाट्यां स राजसूः । स्वं स्वं सौधं विहायेयुर्योषास्तत्र कुटीरकम् ॥२४३ शीतं वातं धनं धर्म श्वसुरौ पितरौ पतिम् । रुदन्तं बालकं नापि तद्दृष्ट्यै मेनिरे स्त्रियः ॥२४४ कायेन मनसा वाचा तत्रैवोक्ताः कुलाङ्गनाः । स्वं स्वं गृहं न त्यजन्ति केवलं कुललज्जया ॥२४५ तथा विज्ञाय नगरस्त्रैणं स्वार्थपराङ्मुखम् । प्राभतेन पुरीप्रष्ठा राजानमुपतस्थिरे ॥२४६ राजाऽऽख्यदुच्यतां कार्य तेऽवोचन्त कृताञ्जलि । विज्ञापयामः किं स्वामिन् सापराधाः स्वयं वयम् ॥२४७ भूपोऽभ्यधत्त निःशङ्कमभिधत्त पुरीवराः ।
प्रजाप्रमोदप्रतिभूः प्रजापतिरहं यतः ॥२४८ २४३.३: विहायेषु(१).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org