SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ११९ २२२-६३ष्ट] पञ्चम उत्साहः न कुलं न सदाचारं नाकीति न धनक्षयम् । सोऽजीगणद् व्यसनाब्धिनिमग्नो धतकारवत् ॥२२२ अथैष स्वजनैरूचे तित्यक्षसि न चेदमुम् । गृहिणीं कुरु तद्हे मा सर्वस्वं विनाशय ॥२२३ वसुदत्तोऽथ तामूचे मद्गृहे स्वामिनी भव । तयाऽम्बा चन्द्रलेखोचे पुत्रीं सा चाभ्यधादिति ॥२२४ यौवनद्धिं यावदेष किंकरिष्यति ते ध्वम् ।। तदभावे पुनरेष भवत्या किं करिष्यति ॥२२५ न च दा(?)ता गृहसारं त्वत्सूनोर्मेति तत् कृथाः । आस्तां दूरे सुवर्ण तद् यत् की त्रोटयेदिह ॥२२६ तत् साऽऽख्याद् वसुदत्ताय सोऽभ्यधादित्यसम्भवि । भवेच्चेत् स्वर्णलक्षं ते दास्येऽभी साक्षिणस्तव ॥२२७ ततोऽतिसग्रहं कृत्वा तद्धामैच्चूतमञ्जरी । वसुदत्तेन सा चक्रे गृहस्योपरि मञ्जरी ॥२२८ अथ सा श्रीमती जज्ञे तृणादपि लघीयसी ।। ततः कस्यापि पार्श्वेऽसौ कुष्ठयोगमशिक्षत ॥२२९ ददौ च चूतमञ्जाः स्नाने पानेऽशने च तम् । सद्यस्ततोऽभवच्चूतमञ्जरी कुष्ठमञ्जरी ॥२३० तथा हि - प्राक् तदने कुङ्कुमादितिलकानि यथाऽभवन् । तथाऽस्रवन् पूतिकानि मण्डलानि हहाऽभितः ॥२३१ गलितेक्षणनासौष्ठकर्णक्रमकराङ्गुलौ । आविर्भूततिरोभाव इव तस्यां तदाऽभवत् ॥२३२ प्रवहत्पूतिप्रवहा . कामरिक्रमिकुलाकुला । अक्षाममक्षिकाकाम्या हा जज्ञे चूतमञ्जरी ॥२३३ ततश्च . चूतमञ्जर्या वसुदत्तोऽथितो ददौ । स्वर्णलक्षं विलक्षा तु सा जगाम निजालयम् ॥२३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy