SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ११८ लीलावतीसारे [२०७-२२१ कुन्दोत्तीर्णे इव वृत्ते तस्या जङ्घ क्रमात् पृथू । ऊरू करिकराकारौ न्वाधारौ स्मरवेश्मनः ॥२,०९ नाभीबिलं स्मरबिलेशयस्येव निवासभूः । मुष्टिग्राह्य च तन्मध्यं पुष्पेषोः सारमुष्टिवत् ॥२१० कामेभकुम्भपीठं नु वक्षो वक्षोजमण्डितम् । जगज्जयाय तत्कण्ठः कम्बुः किं शङ्खभृद्भुवः ॥२१.१ लोलमाने उभयतो बाहू तत्पूजनस्रजौ ।। वृत्तं सौम्यं मुखं चन्द्रोऽधरो न्वमृतनिर्भरः ॥२१२ नाशावंशेऽलिकं छत्रं दृश्रियोर्धपटीभूतोः । ताडकताडितौ कणी श्रीरतेर्वलयाविव ॥२१३ स्निग्धदीर्घतनीयस्तत्केशपाशपराजितः । शिखी सिषेवे तं शक्तिधरं नु वहनस्थलात् ॥२.१४ प्रतिप्रतीकं निःशेषां तस्या लावण्यवर्णनाम् । कर्तुं कृतमुखः सोऽपि मन्ये नैव चतुर्मुखः ॥२१५ कलानामेकनिलयो वैदग्ध्या एकसेवधिः । वक्रोक्तिरचनाचञ्चुरुच्चकैः सेव सा भुवि ॥२१६ मोहाब्रह्मविलासाभ्यां मित्राभ्यां प्राच्यजन्मनः । विलेसे भृशमेतस्यां भूविशेषबलादिव ॥२१७ इतश्च - तत्रैवाभूद् वसुपतिर्वसुर्वसुमतीप्रियः । वसुदत्तश्च तत्पुत्रः कलासौभाग्यमन्दिरम् ॥२१८ तत्रैव बहुलेभ्यस्य पुत्री गौरीखनीमणिः । श्रीमती वसुदत्तेन परिणिन्ये प्रमोदतः ॥२१९ तयोर्भुजानयोः पञ्चप्रकारान् विषयांश्चिरात् । विपन्नौ पितरौ यद्वा सुरा अप्याख्ययाऽमराः ॥२२० ततोऽग्रजाद्यभावात् श्रीयौवनाभ्यां निरङ्कुशः । वसुदत्तशुकश्चतमञ्जर्यामासजद् दृढम् ॥२२१ २१६.३. - चुंचु -- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy