SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ११७ पञ्चम उत्साहः स च पद्मरथः प्राप्तो विदेशं जनकं प्रति । ..... गाढामर्षविषावेगो दुर्दाम्यो कृष्णसर्पवत् ।।१९५ ततः स मान्त्रिकान् धूर्तान् योगिनश्चाप्यसेवत । . अदृश्यीकरणं केनाप्यस्योपादेशि तद्यथा ॥१९६ अंकुल्लतैलमृणालसूत्रवर्तिप्रदीपतः ।। अञ्जनाक्तदृशोऽदृश्या बम्भ्रम्यन्ते, यदृच्छया ॥१९७ तच्च तेन कृतं सिद्धमदृश्यीकरणं ततः ।। अन्तपिवर्मितोऽमर्षातिरेकतुरग श्रितः ॥१९८ मोहकोशप्रवेशाढ्याब्रह्मवाञ्छाच्छुरीकरः । स्वनिकारव्यतिहारकृते स स्वपुरं ययौ ॥१९९॥ युग्मम् राट्सौधे जनसम्मत् स प्रवेष्टुमपारयत् । पापः प्रविश्य शुद्धान्ते ध्वंसते स्माबला बलात् ॥२०० वारकेऽप्यकामुकास्ता ज्ञात्वा पुवेशशङ्कया । राजापाक्षीत् कञ्चुकिनं सोऽवग दृश्यो न कश्चन ॥२०१ ततोऽत्र समिताचूर्ण क्षिप्तं चक्रेऽनलध्वजः । कज्जले गलिते प्रेक्षांचक्रे पद्मरथो धतः ॥२०२ ततः प्राहरिकैर्बद्धो दृष्टः सर्वैः सविस्मयम् । राज्ञो निवेदितस्तेन वध्य आदिश्यते स्म सः ॥२०३ ततो वसुन्धर इव विगोप्य निखिले पुरे । शूलायां कीलयाञ्चक्रे स रौद्रध्यानतोऽमृत ॥२०४ जज्ञे प्रथमनरके सागरायुः स नारकः । अहो मोहाब्रह्मतरोः फलं किमपि दारुणम् ॥२०५ ततः कथञ्चिदुवृत्तस्ताम्रलिप्त्यां महापुरे । वेश्यायाश्चन्द्रलेखायाः पुत्रिका भवति स्म सः ॥२०६ सा चूतमञ्जरी नाम्ना विदधे चन्द्रलेखया । यौवनेन वसन्तेन पुनः सौभाग्यमञ्जरी ॥२०७ तथा हि - मांसलौ कोमलौ कनौ तत्पदावरुणौ तले । सीमन्तिनीनां सीमन्ते धृतेः सिन्दूरिताविव ॥२०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy