________________
लीलावतीसारे
[१८१-१९३ मद्भत्यसाध्ये तातास्मिन् किं युक्तं मेऽभिषेणनम् । तत्पत्न्यः सन्ति रूपाढ्या न ते x स्ते भवन्त्विति ॥१८१ किमास्माककुले ग्राह्या मेदिन्यस्तात कर्हिचित् । शृणु वत्स श्रुति ग्राह्य स्त्रीरत्नं दुष्कुलादपि ॥१८२ किं तात मेदिनीजाता राज्याः स्युः कुमारकाः । त्वत्तोऽन्यदारजाताः किं तथा स्युः कुलपांसन ॥१८३ ततः कुमारो मौन्यस्थात् पित्रा स्तम्भितगीरिव । भूभङ्गभीषणः शङ्खकीर्तिः शङ्खनृपोऽभ्यधात् ॥१८४ द्रुहन् प्रजाभ्यो रे पाप राज्यान)ऽसि सर्वथा । भव निर्विषयो येन श्रुतिभ्यां श्रूयसे न हि ॥१८५ ततः पद्मरथो नीचैदिवेन्दुरिव निष्प्रभः । गत्वा स्वमातुस्तत्सर्व कथयामास दुर्मनाः ॥१८६ पद्मावत्यवदज्जाने हुं प्रियंगुलताप्रियः । न्यसिता त्वत्पिता राज्ये तत्पुत्रं पद्मकेसरम् ॥१८७ तन्मत्पितुः गृहं याहि राज्यं मेऽम्ब ब्रजेदिति ।। तद् व्यापाद्य नृपं राज्यमादास्येऽस्मीत्यवक् सुतः ॥१८८ माताऽऽख्यदिति मा कार्वत्यैवं तेऽपि संशयः । विषात् त्वदिष्टमाधास्ये दास्ये राज्यं तव ध्रुवम् ॥१८९ इति कञ्चुकिना श्रुत्वा सर्व राज्ञे न्यवेद्यत । राजाऽपि सद्यः सुभटान् भ्रकुटीभीषणोऽभणत् ॥१९० रे रे कृत्वोधताक्षं तं तां च कृत्तौष्ठनासिकाम् । पञ्जरे क्षिपत क्षिप्रं पापं पततु पापयोः ॥१९१ दास्या तच्च तयोरूचे निशि तौ च द्रुतौ द्रुतम् । देवस्येव नृदेवस्याराला भ्रः केन सह्यते ॥१९२ इतश्च स धनश्रेष्ठिनन्दनो नन्दनस्ततः । उपार्जितासङ्ख्यधनो धनोदवसितं समैत् ॥१९३ जज्ञे च वर्धापनकं धनसागरगेहयोः । सुलक्षणा सर्वतोऽपि सा बभूव सुलक्षणा ॥१९४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org