________________
१६७-१८० ]
Jain Education International
पश्चम उत्साहः
कस्याप्येतन्नैव वाच्यं निवार्य शपथेन ताम् । सद्यः सागरदत्तेन सममालोचयद् धनः ॥१६७ सम्भाव्यमानं पुरुषं शासितुं नेश्वरः वरः । विज्ञप्यते ततो राजा योगक्षेमकरः स हि ॥ १६८ तदैव सुप्राभतैस्तौ शङ्खराजमपश्यताम् । राजा च तावभाषिष्ट कार्य विज्ञप्यतामिति ॥ १६९ धनोऽव्यज्ञपयत् स्वामिन्नेकान्तेन प्रसीद मे । राजाज्ञया ततो वेत्री तां सभामुदतिष्ठपत् ॥ १७० तदा कुमारसचिवः श्रीबुद्धिविभवाह्वयः । उत्तिष्ठन् क्षितिपादेशादतिष्ठत् क्षितिपान्तिके ॥ १७१ धनोऽथ विजने विज्ञाप नरेश्वरम् । देव ये विरतात्मानो वनवासैकलालसाः ॥ १७२ ध्यानैकताना मुनयः कन्दमूलदलाशिनः । कैवर्त्यादिषु योज्यन्ते तेऽपि कामेन पाप्मना ॥ १७३ ॥ युग्मम् ये पुनर्भोगिनः स्वेच्छाचारिणो यौवनोन्मदाः ।
तेषां वार्त्तापि राजेन्द्र न वक्तुमपि पार्यते ॥ १७४
स्वार्थ विज्ञपयेत्युक्तो राज्ञा व्यज्ञापयद् धनः । व्यवहर्तुं मम पुत्रो देव गर्जनकेऽगमत् ॥ १७५ तत्पत्नी सविधे कोऽपि समेति निशि कामुकः । निवार्यतां देव सैष दोषो मे स्याद्यथा न हि ॥ १७६ राजा सकोपमाचष्ट स पाप्मा दण्डपाशिभिः । सम्यक विज्ञाय नियतमचिरान्निग्रहीष्यते ॥ १७७ क्षणेऽत्र बुद्धिविभवो राज्ञः कर्णेऽजपद्विभो । सैष पद्मरथोऽयं हि तयैवं ह्यः किलामिलत् ॥ १७८ श्रेष्ठं करिष्यते श्रेष्ठिन् गच्छेति व्यसृजद् धनम् । राजा कुमारं चाहूय सद्योऽप्यादिष्टवानिति ॥ १७९ वत्स पल्लपतिः सिंहो वनदुर्गेण दुर्महः । नस्तदेनमभिषेण ॥ १८०
उपद्रव निदेशं
For Private & Personal Use Only
११५
www.jainelibrary.org