SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ [ १५७-१९६६ लीलावतीसारे पिता - आहूयसेऽत एवासि यस्त्वां प्रतिचरेत् प्रसूः । पुत्री - आयातमात्रा मन्दाऽभूदिति नैम्यपवादतः ॥१५७ पिता - तन्निवाते शयीथास्त्वं येन स्यात्ते. वपुः पटु । पुत्रीअद्य ताताङ्गदाहो मे निवातं तन्न रोचते ॥१५८ पिता - तत् प्रवाते त्वं शयीथाः स्वप्स्यत्यम्बा तवान्तिके । पुत्री - गृहान्तरागमे मातुरभक्तिः स्यान्मया कृता ॥१५९ धनः - यद्येवं तर्हि भद्रेवाद्य स्वप्स्यति तवान्तिके । वधूः (स्वगतम्) - पित्रोरयेऽतिनिर्बन्धा दृश्यहेतुतः कुतः (?) ॥१६० (प्रकाशम् ) विकाले ज्ञास्यते तातौ (?) स्वरूपं वपुषो मम । ततः सागरदत्तोऽगाद् विमना मन्दिरं निजम् ॥१६१ वलभीमधितस्थुष्या श्रेष्ठिवध्वाऽतिशङ्कया । भुजिक्षणागताऽभाणि सा दासी भोज्यहारिका ॥१६२ हला जानास्यद्य पितुः किं मदाकारणे ग्रहः । . दास्यूचे युक्तमावातुं पुत्रीं तातस्य गौरवम् ॥१६३ तयोचे मा मुधा जल्प त्वयेदं किंचिदादधे । दास्यूचे किमिदं स्वामिन्यथावोचत् सुलक्षणा ॥१६४ मां निरीक्ष्य यदा प्राताघुटस्त्वं तदन्विमौ । अत्रायातौ मुधा तच्च श्वोभाव्यद्यैव भावि यत् ॥१६५ ततस्तद्वाक्यमाकावहित्थामारचय्य च । तां भोजयित्वा तत् सर्व दास्याऽभाणि धनाग्रतः ॥१६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy