________________
te-ise]
Lila. -15
Jain Education International
पश्चम उत्साहः
सम्भाव्यते पद्मरथकुमारस्येति चेष्टितम् । राजवर्चसमृते कोऽपि
न
चेष्टुमिहेश्वरः ॥ १४६
स च प्रतिविधातुं न कथञ्चिच्छक्यते मया । किञ्च युद्धाद्वरं बुद्धमित्याभाणक उत्तमः ॥ १४७
1
ततः स्वपुत्रीं स्वगृहमाहूय नय रक्ष च । कुलेन्दौ निष्कलङ्के नः कलङ्कोऽयं भवेन्न यत् ॥ १४८ इति मन्त्रं विनिश्चित्य धनः स्वसदनं ययौ । आगात् सागरदत्तश्च पुत्रीं वातुं धनौकसि ॥१४९
सागरः ।
सुलक्षणा समक्षं च धनमाचष्ट पुत्रीं प्रेषय महे मोदते येन नः कुलम् ॥ १५० धनोऽथ कथयामास कथ्यं नैतत् कथञ्चन । नन्दनालोकनानन्दो यन्मे स्याद्दृष्टयाऽनया ॥ १५१ प्रहिण्वहानि कतिचित् पुनरेष्यति सत्वरम् । धनोऽनुमेने कथामन्यथाऽवोचत् सुलक्षणा ॥ १५२ तातार्यपुत्रो मे क्षूणं मन्ताऽसौ स्वैरमैदिति । आर्यपुत्रागमं यावत् तदहं यामि न क्वचित् ॥ १५३ धनोऽवदन्नैव पुत्रि क्षूणं मद्वचनाद्गमे । तन्मा भैषीर्गच्छ वत्से ज्योत्स्नेव धिनु सागरम् ॥ १५४
वधूः
यद्येवं तातगेहेऽह्नि स्थित्वा स्वप्स्यामि चात्र तु ।
पिता
-
--
चानधे ॥ १५५
यमपचारस्ते स्वप्यास्तत्रैव
पुत्री -
ताताद्य पटु मे नाङ्गमेष्याम्यस्मि ततः प्रगे ।
सा दध्यौ येन सङ्केतं तस्य तत्रादधे निशि ॥ १५६
For Private & Personal Use Only
१३
www.jainelibrary.org