________________
लीलावतीसारे
[१३२-१४५ अथ दासी भोजयित्वा तां जगाम यथागतम् । सुलक्षणा पुनः सायं पल्यकं प्रगुणं व्यधात् ॥१३२ दीपं प्रबोध्य वलभीगृहद्वारं पिधाय च । गवाक्षमुद्घाट्य तस्थौ कुमारागमकाक्षिणी ॥१३३ यामेऽतियाते यामिन्या विजने पथि सोऽसिभृत् । विद्यदुत्क्षिप्तकरणात् तं गवाक्षमगात् सुखात् ॥१३४ ददर्श तां तु पर्यकस्येषामालिङ्गय तस्थुषीम् । शनैर्गत्वा कराब्जाभ्यां पिदधे तद्दृशावसौ ॥१३५ रोमाञ्चपुष्पितां दृष्ट्वा तां कदम्बलतामिव । कुमारः स्माह सुभगेऽपनिद्रः स्वाप एष ते ॥१३६ रङ्गात् ततस्तौ रेमाते जज्ञे यामद्वयं निशः । कुमारोऽथावदद्यामि मा स्म शीयावहि क्वचित् ॥१३७ ततः सुलक्षणा चख्यौ धिक् ते पुरुष पौरुषम् । बिभेति साहसं कृत्वा यः पामरजनादपि ॥१३८ जनज्ञाते तु यत् कार्य तत् कुर्याः क्षत्रियोऽसि यत् । कार्य च निष्काश्यमानां मां संरक्षेरिति प्रिय ॥१३९ कुमारोऽवक् कियदेतत् साऽऽख्यत् तत्तिष्ठ निर्भयः । ततो रन्त्वा तुर्ययामे कुमारोऽगात् स्वमन्दिरम् ॥१४० वार्धानीदन्तपवनताम्बूलादिकरा प्रगे। सा दास्यागाद् वधूपार्श्वेऽन्यथा तां वीक्ष्य चावलत् ॥१४१ धनस्याथ वधूवृत्तं सा चतुःकर्णमभ्यधात् । तात सम्यग् न जानेऽस्मि यथादृष्टश्रुतं ब्रुवे ॥१४२ सुलक्षणाया . अद्याङ्गं नखदन्तव्रणोल्बणम् ।। निद्रालसं परिम्लानकुसुमस्तबकोपमम् ॥१४३ कल्ये पुनः पद्मरथकुमारं प्रति सत्वरम् । आकाशोक्त्या प्रलापाश्च भृशं शुश्रुविरे मया ॥१४४ न कथ्यमेतत् कस्यापि शपथेन निवार्य ताम् । धनः सागरदत्तस्यैकान्ते तत् सर्वमभ्यधात् ॥१४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org