________________
११८-१३१]
पञ्चम उत्साहः कोको विरहदूनाङ्गो नेदिष्टां चक्रवाकिकाम् । छमनाश्लिष्यति भशं तिर्यसैष किमुच्यते ॥११८ तत् प्रतीच्छां हृदि न्यस्य जगाम नृपनन्दनः । सुलक्षणा तु तच्चेता आकाशोक्त्याऽब्रवीदिति ॥११९ किमेतावन्ति भाग्यानि त्वया मे दैव चक्रिरे । सम्पनीपद्यते यैः साग ममायं प्रियमेलकः ॥१२० विधे विधेहि किञ्चिन्मे सुलक्षणमदःप्रदम् । पितृभ्यामादितोऽप्यस्मि चक्रे यद्वा सुलक्षणा ॥१२१ हे नु मार तवैतावद् भाग्यं सम्भाव्यते मया । यदतीन्द्रपदे राज्ये सुभग त्वमजायथाः ॥१२२ यद्वा येनैव दैवेन पूर्वरङ्गोऽयमादधे । स एव संपूर्णमिदं नाटकं घटयिष्यति ॥१२३ द्रतमेोहि सुभग मम पूरय वाञ्छितम् ।। सायं यावदिमे प्राणाः स्थिरा यास्यन्त्यतः परम् ॥१२४ इति शून्यामुक्तिमस्याः शण्वती मन्थरागमात् । आनाकर्णितकं नाटयन्ती चान्यावलोकनात् ॥१२५ नामधेयात् सुधविका तस्या भोजनहारिका । दास्यागादभ्यधाच्चैतां किं स्वामिन्येकिकाऽब्रवीः ॥१२६॥ युग्मम् सावहित्थमथाख्यत् साऽब्रुवमित्यस्मि भग्निके । धिग धिक पुंसो येऽबलानां भवन्त्यहह किङ्कराः ॥१२७ त्वङ्मात्रचङ्गार्यङ्गैरन्तर्दुर्धातुपूरितैः । स्वर्णाक्तताम्रभूषाभैर्ये मूढाः ते न सद्धियः ॥१२८ जितः स्त्रियाऽपि यस्त्वेव (?) नालकापुरुषेश्वरः । यस्तु न स्त्रीपक्कमग्नः स एव हि पुमान् पुमान् ॥१२९ धन्याः साध्व्यो महासत्यो यच्छीलमजरामरम् । इत्यादिचिन्तयन्त्यस्थां रहस्येकाकिनी सखि ॥१३० स्मित्वा साऽऽख्यदहं जाने स्वामिनी प्रव्रजिष्यति । सुलक्षणोचे मां मुञ्चेच्चेत् प्रियो दर्शयेऽस्मि तत् ॥१३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org