________________
११०
लीलावतीसारे
भीष्ममदवानलोत्थदवथुप्रोन्माथविद्यागुरुर्वापीकूपमहासरोवरसरिद्रपप्रपादापकः
उद्यत्पुष्पफलादिभिः प्रतिपदं सत्रालयस्थापकः
Jain Education International
I
यत्राभान्ति घना घनाः स्मरमहीशस्येव सेनाधिपा
विद्युद् दृग्भिरभीक्ष्णवीक्षणचणा मानस्थवामझुवाम् । गर्जाभिः किल तद्विभायनकृते हक्कासमुल्लासकाः
क्षोणौ सौस्थ्यपितामहो वहति यः प्रोच्चैः सुराज्ञः कलाम् ॥१०६
[ १०६-११७
पुष्णन्तो जलवृष्टिभिर्विरहिणीसन्तापवज्रानलम् ॥१०७ अवतीर्णमिति क्षोणौ पश्यन्ती जलदागमम् । अपश्यन्ती धनवधूः स्वपार्श्वे नन्दनागमम् ॥ १०८ चक्रवाकीव विरह दहनालीढमानसा |
सस्मार सा स्मरोदारं स्वभर्तारं प्रतिक्षणम् ॥ १०९ ॥ युग्मम् रणन पिशाचेनेव पाप्मना ।
आत्ता
पारापतादिललितं सा सोत्कण्ठं व्यलोकत ॥ ११० निद्रानाप्त्या वेल्लमाना शयनीये ततो निशि । पतिवत् कामचेष्टाभिः स्वयं स्वाने व्यचेष्टत ॥ १११ अन्यदा सा कुरङ्गाक्षी गवाक्षाक्षिकनीनिका । आदर्शबिम्बात्मबिम्बदर्शनाक्षिप्तलोचना
॥ ११२
For Private & Personal Use Only
तदासन्नराजमार्गागतेन
नृपसूनुना ।
सौन्दर्यद्मना
पद्मरथेनाल व्यलोक्यत ॥ ११३ ॥ युग्मम् विश्रब्धछद्मना स्थित्वा मित्रचक्षुश्च रक्षता । चिरं सा दृसुधा तेन पपे दिष्ट्या तया च सः ॥११४ हृन्मे तवैवेति किल व्यङ्क्तुं मोट्टायिताद्वरा ( 3 ) । तयाऽदर्शि ततोऽवादीत् कुमारोऽन्यापदेशतः ॥ ११५ कानने रमते कोकी मेदुरामदनिर्भरा । मिताक्षरं ब्रूवे विद्धि ते वर्णा ये पदादितः ॥ ११६ तदुक्तमवबुध्याथ पश्यन्त्यादर्शमण्डलम् । स्मरावतारं कुमारं तं प्रत्युचे सुलक्षणा ॥ ११७
www.jainelibrary.org