________________
२२-१०५.]
पञ्चम उत्साहः मरुस्थलममूदृक्षमतीत्य
पुरलीलया । क्षेमाद्दर्जनकपुरमाससाद स नन्दनः ॥९२ प्रभूतैः प्राभूतैस्तत्र प्रासाद्य तेन भूपतिः । शुल्कायितं तस्य भाण्ड भू भुजा त्वर्धदानतः ॥९३ ग्राहकेषु समेतेषु भाण्डमूल्यं न सङ्गतम् । ततोऽसौ भाण्डशालासु सर्व भाण्डमचिक्षिपत् ॥९४ तद्देशवारिणा मन्दा भाऽभाणि सुलक्षणा । भाण्डं मुक्त्वा गच्छतो मेऽर्थनाशायशसी प्रिये ॥९५ दिने दिनेऽत्र मन्दाऽसि पानीयं सहते न ते । सुखादुष्ट्रादिभिः साधं स्वपुरं गच्छ तत् प्रिये ॥९६ प्राप्तायास्तत्र चारोग्यं द्रुतं संपत्स्यते तव । भाण्ड विक्रीयाहमपि द्रुतमेप्यामि सुन्दरि ! ॥९७ ततः सुखासनेनैष प्रेषीत् तां करभैः सह ।। क्षेमात् तत्र परापत् सा शीघ्रमारोग्यमाप च ॥९८ धनोऽथ चिन्तयामास तरुणी प्रोषिते धवे । दूरक्षा श्वासुरे तेन सुयुक्तासौ पितुर्गुहे ॥९९ ततो धनो वधूतातं सागरदत्तमाह्वयत् । स्वाभिप्रायं तस्य बन्धोरिव सर्व न्यवेदयत् ॥१०० स्माह सागरदत्तोऽथात्यासंघर्षेण(?) मद्गृहे । शिक्ष्यमाणाऽप्यसौ रुष्येत् स्वच्छन्दा स्यादशिक्षणे ॥१०१ त्वद्गृहे तु स्थिता श्वश्रभयेन तव शङ्कया । एषा तिष्ठेत् समर्यादा तत्ते वेश्मनि तिष्ठतु ॥१०२ ततो धनस्य सदनोपरि दास्यादिभिर्धता । धनेन धनदेनेव पूर्यमाणमनीषिता ॥१०३ चतुराभिर्वयस्याभिः सह नानाविनोदनैः । सुलक्षणा सुखात् तस्थौ प्रोषितेऽपि हि भर्तरि ॥१०४॥ युग्मम् अथान्येधुरञ्जनाद्रिशृङ्गचङ्गघनाकरः । जीवलोकस्य जीवातुराजगाम , घनागमः ॥१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org