SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १०८ लीलावतीसारे [८१-९१ प्राणेश तत् त्वया साधं प्रस्थास्येऽहमपि ध्रुवम् । देहच्छायेव यन्नाथ शोभेऽभ्यासे तवैव हि ॥८१ पितरौ नन्दनेनोक्तौ वधूर्वोऽन्वेति मामियम् । ताभ्यामूचे वत्स साधु साध्वीनामुचितं ह्यदः ॥८२ कर्पासरूतप्रमुखं स्राक् संगृह्य क्रयाणकम् ।। दक्षानुरक्तशुचिकं संप्रधार्य परिच्छदम् ॥८३ सुलक्षणायाः कृते च निरूप्य सुखवाहनम् । क्रमेलकान् वेगसरान् वृषभांश्चातिभूरिशः ॥८४ शुभेऽह्नि मातृपितृभ्यां दत्ताशीः कृतमङ्गलः ।। प्रवधितोद्यमः प्रास्थानिकैः शकुनमङ्गलैः ॥८५ साधं वध्वा नन्दनोऽथ सुहृदा x x ननन्दनः । प्रतस्थे स्थेमहेमाद्रिगर्जन् गर्जनकं प्रति ।।८६॥ चतुभिश्च कुलकम् प्रतिग्राम प्रतिपुरं प्रत्यx xतिकाननम् । नवीनं नगरमिव स्वसार्थेनावतारयन् ।।८७ क्रमेलकप्रिय बन्धु दुर्लवं वाधिनाऽपि हि ।। वा[लुका]याः किलाम्भोधि सैष प्राप मरुस्थलम् ।।८८॥ युग्मम् ज्योतिश्चक्रदुराक्रमाः प्रतिपदं यत्र स्थलश्रेणयो यत्राजानुपदद्वयं निविशते तल्लङ्घने भीविव । पातालान्तरकांक्षि यत्र च जलं तभीतितो न्वाकुलं छायाजन्मभुवो न यत्र तरवस्तप्तोषजग्धा इव ।।८९ नृक्षेत्रस्य बहिर्यथा किल नरः प्रायो न यत्रेक्ष्यते चेद्वीक्ष्येत बकोऽपि दुष्टपशुवत् सोऽप्युच्चकैीतिकृत् । प्रत्यध्वं यमनागपाशसदृशा भ्राम्यन्ति कुम्भीनसा भूताश्च भ्रमयन्ति मुग्धपथिकान्नानाभयोद्भावनैः ॥९० नेत्रानन्दि न यत्र किञ्चन मनाग् न श्रोत्रगोत्रोत्सवो घाणप्रीणनकार्मण न च न च त्वक़सौख्यलीलाङ्गणम् । जिह्वाविह्वलतावहं न च न च स्वान्तामृतं किं घनै र्यन्नामापि हि दुःश्रव श्रवणयोः प्रेताधिनेतुर्यथा ॥९१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy