________________
६७-८० j
पञ्चम उत्साहः
१०७
हाऽनार्य वक्रहृदय किमेनमनुमन्यसे । प्रोषिते नन्दने प्राणाः प्रोषिता एव मे तदा ॥६७ प्रिये वदेति मा किं तु नैनं वारयितुं क्षमः । ततो मया नन्दनस्य त्वं निषेद्धमदीत ॥६८ धनो धनं x तं पिन्ह (?) किं त्वं वत्स विधित्ससे । यदेषु वेलाकूलेषु सर्वेषु वणिजस्तव ॥६९ अत्रैव भाण्डशालाश्च भां x x x समन्ततः । वडवाद्याश्च पोष्यन्ते धनं वृद्धया प्रयुज्यते ॥७० उद्घाट्यन्ते भूरयोऽट्टाः सिच्यन्ते चेक्षुवाटकाः । तदन्यं कं धनोपायं वत्स त्वं प्रचिकीर्षसि ॥७१ नन्दनोऽथावदत् तात रूतकर्पासमुख्यकम् । गर्जनेऽतिमहार्घ तत् पणायिष्यामि तत्र तत् ॥७२ आचचक्षे पिता वत्स म्लेच्छदेशे महद्भयम् ।। प्रस्थिते तत्र भवति कथं भवति नो धतिः ॥७३ न च श्रीःप्राणसंदेहेऽर्जिताऽपि श्लाध्यते यतः । आत्मानं । सततं रक्षेदारैरपि धनैरपि ॥७४ पुत्रोऽवादीदुत्सहिष्णोः श्रीः स्यान् मृत्युश्च दैवतः । इहासीनस्य नैव श्रीर्मृत्युस्तु विगताङ्कुशः ॥७५ तत् तात बहु मन्तव्यः प्रसह्यायं ममोद्यमः । पूज्यानुम xx का हि सिद्धयै स्यादादिमङ्गलम् ॥७६ ततः पिता विनिश्चित्य नन्दनोत्साहसाहसम् । निजगादोद्यच्छ वत्स [पन्था]नः सन्तु ते शिवाः ॥७७ धनोदिताऽथ भद्राऽपि बह्वमस्त सुतोद्यमम् ।। ध्वनि प्रतिध्वनिरिव पति सत्यनुवर्तते ॥७८ सुलक्षणां स्वपत्नी स तमुदन्तमजिज्ञपत् । साऽऽख्यदस्मि सहैष्यामि विदेशा न सुखाः प्रिये ॥७९ पुनः सा x x चिरं (?) मे त्वद्वियोगे विदेशभूः । त्वया सह विदेशोऽपि मन्दिरादधिकः प्रिय ॥८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org