________________
१०६
[५३-६६
लीलावतीसारे ततोऽभ्यधत्त जनकः कलयित्वा शुभाशयम् । दानभोगादि ते किं न पूर्यतेऽदो यदुच्यते ॥५३ पुत्रोऽवक् मातृवत् पित्र्या श्री संवासोचिता शिशोः । यूनस्तु त x x x सः सर्वलोकहसास्पदम् ॥५४ क्रमागताऽप्युज्झति श्रीनिरुत्साहं पयोधिवत् । कृतोद्योगं तु भजते दानवप्र x x x x त् ॥५५ कर्मवादमुरीकृत्य पुरुषः पौरुषोज्झितः । त्यज्यते दुर्भग इवापि क्रमागतया श्रिया ॥५६ [पुरुषः श्लाध्यते तावद् यावत् पौरुषभूषितः । तद्विना मेरुकल्पोऽपि तृणादपि लघुर्भवेत् ॥५७ अपि क्रमाद x x x ता लक्ष्मीरुत्साहिनं नरम् । स्वयंवरेव वृणुते पितस्ते किं बहूच्यते ॥५८ तात त्वयाऽभ्यनुज्ञातः स्व[स्त्व]कषपट्टकम् । कीर्तिलक्ष्म्योः कार्मणं च कर्म निर्मातुमुत्सहे ॥५९ तं प्रत्यूचे पिता वत्स स्वामनुज्ञाप्यमान x । पाणौ कुरुष्व कमलां व्यवसायाब्धिवासिनीम् ॥६० ततोऽसौ जननीपादमूले गत्वाऽऽह मातरम् । तवाशिषां वान्यदे| शाच्छ्रियं ] हर्तुमुपक्रमे ॥६१ ततो माताऽवदद् बाष्पवीचीप्लुतगम्बुजा । पुनर्वत्सेति मा वादीर्जीवितं चेन् ममेच्छसि ॥६२ पितृश्रिया च किं वत्सासंपूर्ण तव विद्यते । को वा ते ददतः स्वैरं प्रत्यूहं कुरुते वद ॥६३ पुत्रोऽवादीदम्ब हर्षस्थानके मा स्म खिद्यथाः । कस्याः पुत्रः श्रियं दूरादाकर्षति कनीमिव ॥६४ जनन्यूचे निर्धनायाः पुत्रस्यैतत् प्रशस्यते । ममातिधनदायास्तु पुत्रस्योपक्रमोऽफलः ॥६५ अत्रान्तरे धनस्तत्रागमद् भद्रा ततभ्यधात् । नन्दनस्य त्वयोक्तं किं x x x पृच्छ मातरम् ॥६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org