________________
४०-५२]
पञ्चम उत्साहः इतश्च तत्रैव पुरे महेभ्योऽश्यानदानवान् । प्रवाद्यत्कीर्तिघण्टोऽभूद् धनः श्रेष्ठी महेभवत् ॥४० हास्येऽप्यलक्ष्यरदना सलीलगतिगामिनी ।। भार्या तस्याभवद् भव्या हस्तिनीवालसेक्षणा ॥४१ प्राग्जन्मरूढपुण्यद्रकामप्रसवसरफलम् तयोर्हन्नन्दनो जज्ञे नन्दनो नन्दनाभिधः ॥४२ कुलोचिताः कलाः सर्वा ग्राहितः सैष लीलया । सुलक्षणायाश्च करं श्रेष्ठिसागरजन्मनः ॥४३ मातापितृप्रसादात् तौ रेमाते दम्पती तथा । यथा स्मररती द्रष्टुं तल्लीलामभिलेषतुः ॥४४ पुरेऽन्यदाऽथ तत्रोपैन्नटो नाट्यैकजन्मभूः । हराक्षिहुतभुक्पातादग्धमूर्तिरिव स्मरः ॥४५ महानटो यद्दिदृशुर्भरतो . यत्र शिक्षकः । गौरी यत्र वरं दित्सुस्तन्नाट्यं स नटो व्यधात् ॥४६ [यथा-]शक्ति ददुः सर्वेऽस्मै पौराः पारितोषिकम् । नन्दनस्तु स्वर्णलक्षं प्रमोदान्नाटयमर्मवित् ॥४७ अहो महादानमि [ति नाट्य-] व्यसनिनोऽस्तुवन् । कश्चित् परगुणेालुरनिन्दन्नन्दनं पुनः ॥४८ श्लाध्यतैतस्य दानं भोश्चेद्दद्यात् स्वभुजार्जितम् । . [पि]तृवित्त ददानस्तु सैष पुष्टिट्टिभः स्फुटम् ॥४९ तच्छ्रुत्वा नन्दनो दध्यौ यथास्थितमसौ जगौ । समुद्रमवगाह्य वर्षत्वब्दोऽम्बुसङ्गतम् ॥५० तदस्म्यपि समुद्यम्य समुपायं श्रियं पराम् ।। पूरयित्वाऽर्थिनामाशाः पिपाशा यशोभरैः ॥५१ इत्थं मनसिकृत्यैष जगाद पितरं धनम् ।
व्यवसायाब्धिमाक्रम्य तात कुर्वे श्रियं स्वसात् ॥५२ ४१.३. The last two letters are blurred. Such places are
indicated by the sign x in what follows. Lila.-14
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org