________________
१०४
लीलावतीसारे
[२६-३९ वध्यते चोद्बध्यते च शूलायामधिरोप्यते । नरके नारकोऽथ स्यात् पल्यसागरजीवितः ॥२६॥ त्रिभिविशेषकम् कृच्छ्रतस्तत उवृत्तः कामकामलविह्वलः ।। तदेवाब्रह्म भजते भजते नरकं ततः ॥२७ ततस्तिर्यक् कामलुब्धः पुनर्नरकमाविशेत् । अनड्वान् चाक्रिकस्येव परिभ्राम्यत्यनन्तशः ॥२८ कथञ्चिन्नृत्वमासाद्याब्रह्मग्रहिलितः पुनः । क्रमागतां श्रियं हन्ति वैरिसिंहो यथैषकः ॥२९ प्रपञ्चितज्ञा सभेयं सूचितज्ञा न हि प्रभो ।। प्रपञ्च्यास्य स्वरूपं तदाख्याहीति नृपोऽभ्यधात् ॥३० चतुर्ज्ञानी रत्नदीपदीपः प्रभुरभाषत । मनो निवेश्योपकर्णमाकर्णय महीपते ॥३१ अस्ति स्वस्तिकवत् स्वस्तिहेतुर्वर्षेऽत्र भारते । शूरसेनाजनपदः पदमाश्चर्यसम्पदाम् ॥३२ भरतक्षेत्रराजस्य क्षेत्रान्तरजये किल । शूरा सेनेत्यसौ ख्यातः शूरसेनाभिधानतः ॥३३ दिद्युते मथुरा तत्र पुरी सुरपुरीसखी । यस्याः परिसरक्षोणी प्रक्षालयति सूर्यजा ॥३४ तत्राद्भुतमहाशब्दानुशब्दितककुम्मुखः । मङ्गल्यो विमलात्माऽभूच्छङ्खो नाम नरेश्वरः ॥३५ यस्य प्रतापस्तपनोऽहनिशं वत निर्ममौ । कालरात्रिममित्राणां मित्राणां कुवलोदयम् ॥३६ सीमन्तिनीनां - सीमन्तरत्न रत्नं सतीषु च । तस्य जिष्णोः कमलेव प्रियाऽभूत् कमलावती ॥३७ तयोविषयपीयूषयूषं
प्रजुषमाणयोः । आनन्दपिण्डो नु मूर्तः पुत्रः पद्मरथोऽभवत् ॥३८ सोऽभात् पूर्णकलः प्राप्तयौवनः कान्तकान्तिकः ।। सौन्दर्याब्धिर्गीतसुधावर्षुकः कौमुदीन्दुवत् ॥३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org