________________
पश्चम उत्साहः प्रबन्धमनुसंधेहि प्रभो प्रस्तुतमग्रतः । भगवानाह राजेन्द्र सावधानं निशामय ॥१३ पुनरन्यदिने नत्वा श्रीसुधर्म व्यजिज्ञपत् । । श्रीविजयसेनभूपोऽमात्यादिपरिवारयुक् ॥१४ चतुर्थमास्रवद्वारमिदानीं शाधि नः प्रभो ।। व्याजहार घनोदारगिरा सूरिनिशम्यताम् ॥१५ पुनरूचे नृपः स्वामिन्नास्रवद्वारपञ्चकम् ।। चत्वारस्तु कषायास्तदत्रोपष्टम्भकोऽस्तु कः ॥१६ प्रभुराख्यन् मोहभेदो नोकषायाः कषायवत् । ततो वेदात्ममोहोपष्टब्धोऽयं तुर्य आस्रवः १७ अब्रह्मसेवाप्राणेशो मोहवीरेश एष भोः । तिर्यनुनारकसुरैः किकरिव खेलति ॥१८ तथा हि - हरहरिब्रह्मचन्द्रसुरेन्द्रादिविजित्वरः स्मरवीरः प्रहरते विश्ववैरी जगत्त्रयम् ॥१९ तरुणीभ्रधनुर्निर्यत्कटाक्षोत्तीक्ष्णसायकैः ।। विध्यत्येष स्मरव्याधो जगज्जन्त्वकुरङ्गकान् ॥२० पुष्पेषुविद्धमनसो जीवा निश्चेतना इव । सुप्तोन्मत्तबधिरान्धमत्तसंमूर्छिता इव ॥२१ न वीक्षन्ते लोकगहीं कुलनिन्दा कुलक्षयम् । सर्वस्वनाशं वृषणकर्णनाशादिकर्त्तनम् ॥२२॥ युग्मम् भ्रातृजायां वधू भग्नी भाग्नेयीं पुत्रिकामपि ।। मातुलानीं मातरं च गणयन्ति न कामिनः ॥२३ राजसामन्तसचिवपुरोधःश्रेष्ठिनामपि पत्नी पुत्रीं स्नुषां भग्नों भाग्नेयीं वारयोषितम् ॥२४ पश्यतीच्छति भुङ्क्ते च कामध्यामलमानसः । ततो राजादिभिः सैष नारकीव निगृह्यते ॥२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org