SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ पञ्चम उत्साहः अथ सिंहमहाराजं जिनदत्तः कृताञ्जलिः । विज्ञो विज्ञापयामास यथाकालप्रवेदकः ॥१ देवाश्रान्तं भगवतां धर्मदेश[न]याऽनया । निरोधो मा स्म सम्पादि तदादेशं विमार्गय ॥२ राजाऽवदद् यदस्माभिः प्रभोय॑ज्ञपि कौतुकात् । तदद्यापि तथैवास्ते ततो गुरुरवोचत ॥३ राजस्तदेव व्याख्यातु वयमेताः स्म आदरात् । आदितस्तुभ्यमायुष्मस्तदेव च निवेद्यते ॥४ महाप्रसादो भगवन्नित्युक्त्वा सिंहभूपतिः । साधून्निमन्त्रयामास भक्तपानार्थमादरात् ॥५ इच्छया वर्तमानेन योगेनेति गुरूदिते । तान् प्रणम्य यथास्थानं ययुः सर्वे नृपादयः ॥६ देवाधिदेवान् संस्नाप्य कुङ्कुमाद्यैर्विलिप्य च । समभ्यय॑ च विधिना सर्वोत्तमसुमादिभिः ॥७ संविभागप्रदानेन सुसाधू न् प्रतिलाभ्य च । बुभुजे सपरीवारः श्रीमान् सिंहमहीपतिः ॥८॥ युग्मम् बत वाणी सुधावाणी कान्तिर्धान्तिकरी रवेः । रूपं जितद्यसद्रपं सौम्यता सौम्यतातजित् ॥९ इत्थं गुरुगुणग्राम वर्णयन्तः प्रमोदतः । राजसंसदि मध्याहे तस्थुः सामन्तमन्त्रिणः ॥१०॥ युग्मम् अतिप्रगे समेतव्यमित्युदित्वा महीपतिः । कुमारामात्यसामन्तजिनदत्तान् व्यसर्जयत् ॥११ ततश्चाति. प्रातरेव सह तैः सिंहभूपतिः ।। गत्वा श्रीसमरसेनसूरिं नत्वाऽब्रवीदिति ॥१२ ९.२. क्रांतिभ्रांति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy