________________
१३७
१०४-११६]
षष्ठ उत्साहः ततो विलोप्य स्वकुलमपकीर्ति विहस्त्य च । अंहःसंहतिमाक्रम्यानीक्षित्वा दुर्गदुर्गतिम् ॥१०४ विश्वस्तस्य प्रशस्तस्य वसुमित्रस्य पाप्मना । रविणा वैरिणा दत्त ताम्बूले विषमं विषम् ॥१०५॥ युग्मम् प्रति प्रतीकं तस्याशु प्रासरन् विषवीचयः । हृषीकप्रसरो रुद्धः किञ्च भग्ने विलोचने ॥१०६ लुलिता कन्धरा स्कन्धे सद्यः प्राणैः पलायितम् । लोभः कुमित्रमैत्री च सत्यं सर्वापदां खनिः ॥१०७ तद् दृष्ट्वा निन्द्यचेष्टोऽसौ नटवन् मूर्छयाऽपतत् । स्वदुष्कर्म तिरोधातुं व्यलापीच्चाप्तचेतनः ॥१०८ देवानांप्रिय रे देव मैव तेऽभूज्जनिः क्वचित् ।। दत्त्वाऽपहरसे यस्त्वं मित्ररत्नममूदृशम् ॥१०९ गतिर्मतिः श्रुतिदृष्टिस्तुष्टिः पुष्टिर्मनो धनम् । हरताऽमुं हृतं सर्वं दुर्दैव सहसैव मे ॥११० वसुमित्र सुमित्र त्वं क गतोऽसीति मे वद । येनाहमपि तत्रैमि त्वां विना स्थातुमक्षमः ॥१११ त्वया सहैव दुर्दैवः किं वा मां नैव नीतवान् । यद्वायं नात्र नामुत्रानुकूलो मम वैरिवत् ॥११२ इत्यादि विलपन्नेष रविरौच्यत तज्जनः । विचार्यतां कार्यमार्य न विलापर्वलत्ययम् ॥११३ रविः सास्रं जगौ क्वास्य संस्कारः स्यात् त ऊचिरे । जलधावेतमाप्लाव्य क्रियतामौर्वदेहिकम् ॥११४ इतश्च वसुमित्रोऽसौ भवितव्यतया तया । कुतश्चिच्छुभभावाच्चाग्निकुमारत्वमानशे ॥११५ जातमात्रो वीक्ष्य दिव्यां तामदृष्टचरीं श्रियम् ।
स दध्यौ किं मया चक्रे येनेय श्रीरुपस्थिता ॥११६ ११५.४. मानसे. Lila.-18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org