________________
चतुर्थ उत्साहः
दोः सहायः पितुर्जज्ञे कालेन पितरौ हृतौ । गृहस्वामी स एवास्तन् मङ्गलाप्राणवल्लभः ॥३७४ सा स्वभावाद्यौवनाच्च मङ्गला सुभगा भृशम् । वसुदेवस्तुनिष् पुण्यतया लक्ष्म्याः सुदुर्भगः ॥३७५ दारिद्येण किलाकृष्टे प्रामित्रे चौर्यकेतवे । अत्रान्तरे वसुदेवे सममेवावतेरतुः ॥ ३७६ esस्याथ वरदत्तः श्रेष्ठिसागरदत्तसूः । आगात् तद्गौरवादेष वसुदेवस्य मित्रयभूत् ॥ ३७७ किन्त्वस्याकृत्रिमं प्रेम वसुदेवस्य कृत्रिमम् । इन्दुमण्डलवद् व्योमतलस्य च जलस्य च ॥३७८ अन्यदा भणिता तेन वसुदेवेन मङ्गला । मामवीक्ष्यापणे गेहे वरदत्तः समेष्यति ॥ ३७९ स्थास्याम्यहं तु प्रच्छन्नः स वक्ष्यति सुहृत् व मे । भाण्यं त्वयाऽपवरकेऽपटुर्वेक्ष्यति तत्र सः ॥३८० ततः कण्ठे विलग्यास्य मुखं चुम्व्यं विशङ्कितम् । स्राक् ततोsस्मि क्षुरीपाणिस्तं ग्रहीष्यामि भीषणः ॥ ३८१ भीतस्ततोऽसौ मेऽभीष्टं भूरि भूरि प्रदास्यति । आजीवितं प्रिये तेन जीविका नौ भविष्यति ॥ ३८२ प्रतिश्रुतं प्रतिवचस्तया लोभाभिभूतया । अथादृष्ट्वाऽट्टे स्वमित्र श्रेष्ठिसूस्तन्निकेतमैत् ॥ ३८३ तेनोक्ता मङ्गला मित्रं क्व मे सोचेऽन्तरातुरः । विवेश गृहमध्येऽसौ सा च भर्भुक्तमाचरत् ॥ ३८४ मृतो मृतोऽसि रे दुष्टेत्याख्यात् पापः क्षुरीकरः । धावित्वा तं करे धृत्वा मारयामीति सोऽवदत् ॥ ३८५ श्रेष्ठिसुर्भीतभीतोऽवग् मा मारय धनं ददे । दत्वा यथेष्टं तस्यासौ स्वं मेने यममुक्तवत् ॥ ३८६ तेनापि भृष्टं शवं स्वं मन्वानः श्रेष्ठिनन्दनः । नित्यं नवनवोत्कोचैर्मानयामास स्वं पतिम् ॥ ३८७ ३७५.३. निःपुण्य
३७४-३८७ ]
Jain Education International
For Private & Personal Use Only
९९
www.jainelibrary.org