SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [३८८-४०१ ततो राज्ञा वरदत्तोऽभाणि किं ते प्रयोजनम् । सोऽवोचद् वसुदेवेन देवैवं वञ्चितोऽस्म्यहम् ॥३८८ कृतप्रतिकृतं तस्य चिकीर्षे त्वत्प्रसादतः । तदमु दोषं प्रापय्य निगृह्यानुगृहाण माम् ॥३८९ तत् प्रतिश्रुत्य नृपतिर्वरदत्तस्य पश्यतः । मुद्रारत्नं स्वं समर्प्य पुरुषौ शिष्टवानिति ॥३९० एकेन वसुदेवाट्टे पश्यतोऽस्या वितर्कितम् । पात्यमेतत् तथाऽदृश्यं द्वितीयेन विदूरतः ॥३९१ तस्मिंस्तेन गृहीते चापकामेत ततो युवाम् । ततो राजादिष्टमाभ्यां कृत राज्ञे न्यवेद्यत ॥३९२ राज्ञाऽथ पटहोऽदापि चम्पायां घोषितं त्विदम् । पतितामादितां मूल्येनात्तां वा राजमुद्रिकाम् ॥३९३ यो लम्भयेत् तस्य दत्ते श्रीभूपः पारितोषिकम् । यस्तु जानन्न कथयेद् दण्डस्तस्याङ्गिकः स्फुटम् ॥३९४॥ युग्मम् घोषितेऽपि तथा मुद्रारत्नं केनापि नाlत । ततो भूपः समाहूय पूःश्रेष्ठानित्यवोचत ॥३९५ पृष्ट्वा पुरीजनान् मुद्रारत्नमानयतामुना । न दोषोऽतः परं तु स्यान्निग्रहो दुरनुग्रहः ॥३९६ पूर्नायकैस्ततः सर्वे प्रत्येक प्रनिता जनाः । तद्वार्तामपि नाचख्युस्तद्राज्ञस्तैय॑वेद्यत ॥३९७ तान् पुनः स्माह भूनेता मुद्रामानयत द्रुतम् । भविता वोऽभितो मुद्रा मुद्राशुद्धावतः परम् ॥३९८ राट्'भ्यां पूर्वराध्यक्षं राज्ञो न्यज्ञप्यत प्रभो । आत्तं तद्वसुदेवेन शोध्यतामापणोऽस्य तत् ॥३९९ शोधिते चापणे तस्य चिरनष्टेष्ट बन्धुवत् । मुद्रारत्नं प्रापि राज्ञा वधस्तस्य न्यवेद्यत ॥४०० महाजनातिविज्ञप्त्या चक्रे निर्विषयस्तु सः । देशान्तराणि प्रान्त्वाऽत्रैद् वसुदेवः स एष भोः ॥४०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy