SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [३६०-३७३ ठकानामीदृशां वाचि प्रत्ययोऽत्रेति को नयः । रे धूर्तामुकवत् किं मामपि मोषितुमिच्छसि ॥३६० मया चैषोऽभाणि ततो मलव्यां तेऽस्ति किं वद । एषोऽवक् पृच्छया वः किं देयं न ह्यस्ति भेख्यकम् (?) ॥३६१ पान्थस्तु पृष्टोऽवगेतदेतदस्त्यत्र वस्तु मे । पुनरेषोऽवदद् भृत्यो ममायं वेत्त्यसौ ततः ॥३६२ मयाभाण्येष सप्ताष्टास्तवात्रैतस्य वासराः ।। अद्याकस्माद् वृषः सोपस्करो भत्यश्च ते कुतः ॥३६३ तूष्णीकेऽस्मिन् मयाऽवादि रे रेऽमुं हत तस्करम् । रदातागुलिरूचेऽसौ रक्ष मां शरणेऽस्मि ते ॥३६४ ततः सोपस्करोऽनड्वान् पथिकाय प्रदापितः । मया निर्भय॑ देवाय स्वदेशान्निरवास्यत ॥३६५ राज्ञेऽथ सिंहराजश्च वज्रसिंहश्च दुर्नयम् । देवदिन्नस्योचतुः स ज्ञेयो मूलकथानकात् ॥३६६ स्मित्वाथ जितशत्रू राट् जगाद जगदाधिहृत् ।। ईषदागो पुनर्वृत्त्या क्षम्यतां क्षमिभिन्नु ॥३६७ यस्त्वेवं चौर्यमायाभ्यां चतुर्धा रूढदुर्नयः । स वध्य एव पापीयान् मा ताम्य जिनरक्षित ॥३६८ ततो वसुन्धर इव रासभारोपितः पुरे । भ्रमितो देवदिन्नः स वराकः पापपिण्डवत् ॥३६९ स्वदुष्कृतफलं जानन्न संक्लिष्टोऽनुतापतः । स मध्यमगुणः शूलारूढो नृत्वमुपार्जयत् ॥३७० तस्यामेवाथ. चम्पायां वणिजो देवडस्य सः । पत्न्याः कुक्षौ सर्वदेव्या नन्दनत्वमशिश्रियत् ॥३७१ पूर्णेष्वहस्सु जातस्य तस्याथ द्वादशेऽहनि । वसुदेव इति नाम पितृभ्यां महसा दधे ॥३७२ कुलोचितकलादाने वम्गडाख्यवणिक्सुता ।। मङ्गला मङ्गलैस्तेन चतुभिः पर्यणीयत ॥३७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy