SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ३४६-३५९] Lila.-13 चतुर्थ उत्साहः कण्ठे विलग्य तस्यैषोऽरोदीत् सोऽवगिदं किमु । ततोऽयमवदत् त्वं मेऽनुजो यत्ते जनेः पुरः ॥ ३४६ गृहान्निर्गत्य देशेष्वभ्राम्यमस्मि कुतूहली । चिरं प्ररुद्यष कृच्छाच्छठः प्राक्षालयन् मुखम् ॥३४७॥ युग्मम् शरीरचिन्तां कुर्वत्रेत्युक्तो मुग्धः स चाशृणोत् । वृषस्तु ग्रामाभिमुखं व्रजतीत्येष तं जगौ ॥ ३४८ वृषं रक्षाम्यहं त्वं त्वागच्छेर्वेश्मन्युदङ्मुखे । प्रवेशे वामतः शीघ्र मम राहिलसंज्ञिनः ॥ ३४९ इत्युक्त्वा वृषमादाय ग्रामप्रान्ते विदिश्यसौ । कुविन्दगेहे गां बध्वा शिश्ये मलविकोपरि ॥ ३५० देहचिन्तां चिरात् कृत्वाऽधावद् वैदेशिकः स तु । उक्तदेशे राहिलौकः पृष्ट्वा पृष्ट्रा विलक्ष्यभूत् ॥३५१ लोकोऽवक पाटके नात्र राहिलद्विजमन्दिरम् । तद् भोः पान्थ वृथैवात्र माऽरण्यरुदितं कृथाः ॥ ३५२ ततः स गतसर्वस्वोऽतीत्य कृच्छ्रेण तां निशाम् । प्रातः स्वामिन् मम द्वारे प्रोच्चैः पूच्चक्रिवानिति ॥ ३५३ वैदेशिकोऽह देवास्मि मुष्टो धूर्तेन केनचित् । तच्चौरं वा निगृहाण मम प्राणान् गृहाण वा ॥ ३५४ स ततोऽपृच्छयत मया क्व मुष्टोऽस्याह सोऽखिलम् । ततो मया मीलयित्वा ग्रामः सर्वोऽप्यभण्यत ॥३५५ एवमेवमयं मुष्टः केनापि हि दुरात्मना । तद्वक्तु यस्य गेहे सोऽन्यथा दण्ड्यो गृहाधिपः ॥ ३५६ कुविन्दोऽवम् वृषः कीदृक पान्थोऽवक् कर्बुरो जरन् । ईदृग्वृषः कोऽपि नरो मद्गेहेऽस्तीति सोऽवदत् ॥ ३५७ स्वपूरुषैरथानायि मया से गवा सह । पान्थश्चाभाण्ययं गौः स्यात् तव सोऽवददोमिति ॥ ३५८ अङ्गुष्ठं नर्त्तयन्नेषोऽवग् रेऽहमपि तावकः । न द्रष्टुमपि ते दास्ये वृषभस्यास्य सम्मुखम् ॥ ३५९ Jain Education International For Private & Personal Use Only ९७ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy