________________
लीलावतीसारे
[३३२-३४५ लोप्नं गृहीत्वा बद्धोऽसौ नीयते स्म पुरान्तरे । तच्छ्रुत्वा पूर्वरान् श्राद्धस्त्वमुं मोचयतेत्यवक् ॥३३२ तैरूचे क्षमते मापो न पुत्रमपि तस्करम् । विज्ञप्यतेऽपि नात्रार्थे जितशत्रुर्नृपस्ततः ॥३३३ आरक्षदर्शितो राज्ञे राजा तं वध्यमादिशत् । श्रावकः प्राभृतकरो धराधीशं व्यजिज्ञपत् ॥३३४ देवैष नो वन्धुरतः स्तन्यदोषोऽस्य न क्वचित् । राजा पुत्रास्यमद्राक्षीत् सोऽवादीन्नैष नः स्वकः ॥३३५ ऊचुः पिता ततोऽनेन राजन् धूर्तेन वञ्चितः ।। भूपोऽथ श्रावक स्माहास्थाने किं खिद्यसे सुधी ॥३३६ धीमन् मयाऽपि साधूनां शुद्धसिद्धान्तदेशिनाम् । पीयूषपायं निपपे वचनं पाप्ममोचनम् ॥३३७ तम्हा सइ सामत्थे आणाभट्ठम्मि नो खलु उवेहा । अणुकूलेहियरेहि य अणुसट्ठी होइ दायव्वा ॥३३८ आज्ञाभ्रष्टश्चैष एवमनाचारं करोति' यः ।। मुञ्चे यद्येनमेवं तत् करोत्यन्योऽपि वञ्चकः ॥३३९ विग्रहराजः सामन्तः स्मित्वा भूपमथाभ्यधात् । यन्मे ग्रामेऽनेन चक्रे चित्रं स्यात् तच्छृतेः प्रभोः ॥३४० देवास्ति देवप्रसादप्रदत्ते मम मण्डले । अतिप्रत्यासन्ननद्या नदीमातृकतां दधत् ॥३४१ वंशपृष्ठाभिधो ग्रामोऽभिरामो नगरादपि ।। स्वामिप्रसादतो राज्यं तत्राहं विदधे सुखात् ॥३४२॥ युग्मम् तत्रायमागतोऽन्येद्युः शून्य भ्राम्यन्नितस्ततः । ईक्षाञ्चके मया नैवाज्ञायि कोऽयमिति प्रभो ॥३४३ नदीतटेऽन्यदा सायं वृषस्थोपस्करं नरम् । आयान्तमेष वीक्ष्योचे भोः कुतस्त्वमिहागमः ॥३४४ वसन्तपुरादित्युक्ते पितरौ को तवेति सः । पुनः पृष्टः प्राह विप्रो जसादित्यश्च माहिनी ॥३४५
३३६.४. सुधीः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org