SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ३२०-११५] चतुर्थ उत्साहः चिन्तामणिस्त्वमेवैकस्त्वमेव सुरभूरुहः । त्वमेव कामसुरभी कामकुम्भस्त्वमेव च ॥३२० ततस्त्वामेव भगवन् प्रार्थये प्रार्थितप्रदम् । भक्त्यद्वैतं त्वयि स्वामिन्नाभवं भवतान्मम ॥३२१ क्षणेऽत्र विमलकीर्तिसूरयः सपरिच्छदाः । देवान् वन्दितुमाजग्मुाख्यां सङ्घाय चादधुः ॥३२२ तथा हि - चतुर्गत्यम्भोधिव्यतिगमचतुःपोतललितान् - जिनेन्द्रा दानादीन् जगदुरिह दानं च बहुधा । द्विधा शीलं सर्वेतरतनु तपो द्वादशविधं तथैव श्रीभावो भजत तदिमान् प्राप्नुत शिवम् ॥३२३ देवदिन्नोऽथ नटवद्धर्षास्रादि मुहुः सृजन् । जिनरक्षितेन जज्ञे संविग्नात्मैष धार्मिकः ॥३२४ तस्य तु स्तैन्यमायाभ्यां पर्याकुलितचेतसः ।। न किञ्चिद् भगवदुक्तं पर्यणसीदभव्यवत् ॥३२५ ततः शरीरचिन्तायै तौ युतौ बहिरीयतुः । जिनरक्षितपुत्रार्हद्दत्ताट्टे तस्थतुः क्षणम् ॥३२६ भुजिक्षणेऽवदच्छाद्धस्तं भोक्तुं धाम्नि गम्यते । सोऽवक कल्ये स्निग्धभुज्या जागराच्च न मे क्षुधा ॥३२७ अर्हद्दत्तोऽथ विपणौ तालकं दातुमैहत । पितोचे देवदिन्नोऽस्ति वत्स मा देहि तालकम् ॥३२८ अनिच्छन्नपि तनयः पितृवाक्यान्न तद्ददौ । पिता पुत्रौ ततो भोक्तुं शीघ्र स्वगृहमीयतुः ॥३२९ स तु पापः करग्राह्य रत्नाद्यादाय नष्टवान् । अर्धभुक्तः सुतस्तूणं विपणावाजगाम च ॥३३० हट्टं मुष्टं वीक्ष्य तं च नष्टं पृष्ठे दधाव सः । चौरोऽनश्यत् स पूच्चक्रे राट्पुंभिर्जगृहे शठः ॥३३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy