SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ २ लीलावतीसारे [३०६-३१९ अत्रान्तरेऽवदच्छाद्धो धीमन् खिन्नस्त्वमध्वना । अस्म्यापणपणायाभिस्ततः सम्प्रति शय्यते ॥३०६ ततो भावनया श्राद्धो मायावी मायया पुनः । देवान् नत्वा भणित्वा च मन्त्रं त्रिः परमेष्ठिनाम् ॥३०७ प्रत्याख्याय च साकारं क्षमयित्वाऽखिलागिनः । विधिना शयितौ ब्रा मुहूर्ते विधिनोत्थितौ ॥३०८॥ युग्मम् सूर्योदये वपुर्वस्त्रमनःशौचपुरःसरम् । श्राद्धः स च शठो वेश्मजिनपूजां वितेनतुः ॥३०९ श्रीचैत्यवन्दनां कृत्वा प्रत्याख्याय यथारुचि । भवाब्धिपोतमेतां तौ चैत्यं पद्मप्रभप्रभोः ॥३१० तत्र पुष्पैश्च गन्धैश्च नैवेद्यैश्च मनोरमैः । आनर्चतुः सरोमाञ्चौ श्रीपद्मप्रभतीर्थपम् ॥३११ विधाय विधिना चैत्यवन्दनां दशभिस्त्रिकैः । हर्षास्रातूपिताक्षोऽसौ देवदिन्नोऽस्तवीत् प्रभुम् ॥३१२ जय पद्मप्रभस्वामिन् पद्मलाञ्छन पद्मदृक् । पद्मकसद्मपात्पद्म पद्मरागमणिद्युते ॥३१३ श्रीमद्वरधराधीश महावंशैकमौक्तिक । सुसीमाहृदयानन्द नन्द पद्मप्रभप्रभो ॥३१४ रागद्वेषमहामोहभूतैनित्यमधिष्ठिते । भवागारे निवसतां त्वदाज्ञा नाथ रक्षिका ॥३१५ कषायविषवल्लीभिर्मूर्छिताशेषजन्तुके संसरतां भवारण्ये क्षेमस्त्वन्नाममन्त्रतः ॥३१६ विषयाशीविषैर्भीष्मे पतितानां भवावटे । निष्कर्षिका जगन्नाथ वाग्वरत्रात्र तावकी ॥३१७ मिथ्यादर्शनचरटेरखिलोऽपि खिलीकृतः । सिद्धयध्वाध्वानघण्टाभिस्त्वया घण्टापथः कृतः ॥३१८ अहर्निशं विनटितं कषायविषयास्रवैः । विश्वरक्षाबद्धकक्ष रक्ष मां सुप्रभप्रभो ॥३१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy