________________
२९४-३०५]
चतुर्थ उत्साहः किञ्चास्रवोऽपि देवायं स्वामिभक्तो निरीक्ष्यते । कुमारोऽबत वीक्षस्व दुष्टस्यास्य विचेष्टितम् ॥२९४ यदभव्याः सर्व एव श्रीमिथ्यात्वानुरागिणः ।। भव्येष्वप्यनन्ततमो भागस्तातं निषेवते ॥२९५ किल सर्वेऽप्याभवन्ति भव्यास्तातस्य सैष तुः । तेषां राड्दर्शनं रुन्द्धेऽनुरक्तो भवतोच्यते ॥२९६ राड्भुक्तौ योऽप्यनन्तांशस्तन्मध्यादप्यनन्तशः । विमोह्यानेन मिथ्यात्वभुक्तौ सचिव निन्यिरे ॥२९७ न वै तन्न तवाध्यक्ष जाग्रत् स्वपिषि किं ततः । कुमार तर्हि विस्पष्टं यथास्थमभिधीयते ॥२९८ देवोऽधुनाऽऽस्रवपुत्रकर्मबन्धस्य दित्सति ।। विपाकनिर्जरां कर्मस्थितिभार्योद्भवां सुताम् ॥२९९ कुमारः - मन्त्रिन् साधूदितं सेयं कलकोपरि चूलिका ।। सन्तापकारिणी गण्डस्योपरि स्फोटिकाऽथवा ॥३०० मन्त्री - प्रियपुत्रस्य ते भुक्तिः श्रावकाश्च विलेभिरे । बन्धाविरत्याश्रवाणां त्रयाणामेकहेलया ॥३०१ प्रमत्ताद्यष्टकेऽपीषत् पदमाश्रवबन्धयोः ।। स्वाम्यदान् मतिविभवविज्ञप्त्याऽविरतेननु ॥३०२ कुमारः - अकृत्ये पित्रवज्ञानेऽत्यसो त्वरिवैभवे । यत्कार्यकरणौचित्यं जिनागम ममोदिश ॥३०३ मन्त्री - अशुभस्याभ्युदीतस्य विधेया कलयापना । विध्यायत्यग्निवत् तद्धि स्वयं कालविलम्बतः ॥३०४ किन्च - न सहसा विदधीत सुधीः क्रियां यदविविच्यकृतः पदमापदाम् । भुवि विमृश्यकरं तु गुणाकरं स्वयमहो वृणते शुभसम्पदः ॥३०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org