________________
१२
लीलावतीसारे
[२८१-२९३ तत् पित्रा परिभूतस्य कुतोऽपि विधिवैशसात् । विदेशगमनं तावत् केवलं लाघवाय मे ॥२८१ यतः - कुलीनस्याकलङ्कस्य दोष्मतो मतिशालिनः । स्वपित्रा परिभूतस्य विदेशान्मरणं वरम् ॥२८२ श्रीमहाव्रतसामन्तैरूचे देवस्य या गतिः । सा सर्वेषामपि हि नः पूर्ण तदरिवाञ्छितम् ॥२८३ किञ्च राज्ञामियं नीतिरुपकृत्य द्विषत्कुलम् । समूलकाषं कषति यस्तस्योर्वी वशंवदा ॥२८४ तच्चेत् स्वाम्यपि सम्मान्यास्रवं छेत्स्यति तद्वरम् । संवरोऽवग नैवमेवं पुष्टे दुष्टे कथं क्षयः ॥२८५ अये कि काचपिच्येनेत्यथोचुस्तलवर्गिकाः । स रिपुः स्वामिविश्रब्धो गत्वा छन्नं निगृह्यताम् ॥२८६ संवरः स्माह तत्रैवं निगृहीते प्रभुः स चेत् । प्राणप्रहाणमिच्छेत् सर्वथा हानिरेव नः ॥२८७ वीरा उपशमाद्यास्तेऽवोचन देव निशम्यताम् । जिनागममहामात्याद् यत्कृत्यमवधार्यताम् ॥२८८ ततो मतिविभवेनाकारितः श्रीजिनागमः । कुमारेणाप्रच्छि मन्त्रिन् किमेव पोष्यते रिपुः ॥२८९ मन्त्री - देव नीतिपरा भूपाः परान् सत्कृत्य कुर्वते । तैरेव तत्कुलोत्पाट कण्टकस्येव कण्टकैः ॥२९० कुमारः - युज्येत सर्वमेवेदं मन्त्रिन् यद्येष सर्वथा । त्यक्त्वा स्वपक्षमायास्यद् विभीषणकुमारवत् ॥२९१ अयं तु स्वपितुः कार्य कर्तुं स्मायाति वोऽन्तिके । न ज्ञायतेऽसौ तत् तातपादानां किं करिष्यति ॥२९२ मन्त्री - कुमार माऽधति कार्षीर्यतः स्वाम्यप्रमद्वरः । देहच्छायेव चास्म्येष नित्यं तत्पारिपाश्चिकः ॥२९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org