________________
२६७-२८० ]
चतुर्थ उत्साहः सपर्षदे कुमाराय स समस्तं व्यजिज्ञपत् । देवादेशात् स्वामिपादान् नत्वोपाविक्षमग्रतः ॥२६७ देवक्षेमोदन्तपूर्व स्वामिन् आगमकारणम् । पृष्टोऽवोचं कुमारो मां प्रेषीद् वः क्षेमवित्तये ॥२६८ ततोऽपश्यं वैरिपुत्रं सकुटुम्बं पुरः प्रभोः । प्रतिक्षणं
नवनवगुरुगौरवभाजनम् ॥२६९ स चावादीद् देवपादसेवायामुत्सुकोऽप्यहम् । पितृकार्यानुरोधेनागच्छमस्मि चिरात् प्रभोः ॥२७० स्मेराक्षिपद्मः स्वाम्युक्त्वा तं प्रति स्वागतं तव । स्वद्धिं दर्शयितुं तस्य सम्यग् दृकपाटकं ययौ ॥२७१ सोऽस्तोत् तं पाटकं तत्र तस्यावासमदात् प्रभुः । सुश्राद्धपाटकं प्रीतोऽथ पादाब्जैरभूषयत् ॥२७२ स च तं भृशमस्तावीत् तत्राप्यावासमाप सः । यथा यथास्रवः स्तौति हृष्यतीशस्तथा तथा ॥२७३ मया क्षणेऽत्र विज्ञप्तं कुमारोऽद्यागतः श्रमी । तदत्र स्थीयतां स्वामिन् दिग्दृष्ट्या सर्वमीक्षितम् ॥२७४ प्रमत्तपाटकं तावत् पश्याम इति राड् जगौ । मयाऽथाभाण्यविरतिरबलात्रैव तिष्ठतु ॥२७५ तत्पुत्रकर्मबन्धारव्ययुतास्रवकुमारयुक्
। प्रमत्ते प्राविशद्देवस्त स चात्यस्तवीच्छठः ॥२७६ विलेभे तस्य तत्रापि स्वामिना वास उत्तमः । यद्वा श्रीसम्यक्त्वराजोऽद्यास्रवं मन्यते बहु ॥२७७ श्रीसंवरकुमारोऽथ सखेदमिदमभ्यधात् । भो भोः शृणुत सामन्ता मत्तातस्य विचेष्टितम् ॥२७८ विलब्धं मम यत् पूर्व तद्दत्तमधुना द्विषः । तस्यापि स्थानकेनाहं गणितस्तेन सम्प्रति ॥२७९ यदि वा वार्धके पुंसां प्रक्षीणनयसम्पदाम् । प्रायो मतिविपर्येति दशकन्धरवद् भुवि ॥२८०
२८०.३. मतिविपर्येति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org