________________
लीलावतीसारे
[२५३-२६६ स्वस्वामिविहितं वैरिगौरवं निशमय्य सः । श्रीसंवरकुमारोऽपि क्रोधवह्निकणेक्षणः ॥२५३ तज्ज्वालाभिरिवाताम्रसंतप्ताखिलविग्रहः ग्रहाविष्ट इवान्याग भूत्वा सभ्यान् क्रुधाऽभ्यधात् ॥२५४॥ युग्मम् हिंसापिशाचीसन्मन्त्र वयस्याद्यमहाव्रत । अलीकारिप्रत्यनीक हे द्वितीयमहाव्रत ॥२५५ स्तैन्यसैन्यदैन्यकारिन् भोस्तृतीयमहाव्रत । अब्रह्मजिह्मगे तार्य ब्रह्मचर्यमहानत ॥२५६ मूर्छामूर्छासुधाम्भोद भोः पञ्चममहाव्रत । प्रभोस्तस्यापि चरितं सामन्ताः श्रयतामिदम् ॥२५७॥ त्रिभिर्विशेषकम् क्षणेऽत्र विजयसेनराजो व्यज्ञपयद् गुरुम् । महाव्रताश्चतुर्धाऽद्य पञ्चधा कि प्ररूपिताः ॥२५८ भगवानाह राजेन्द्र परिग्रहभिदोऽपि हि । अब्रह्मणो गुरुतरदोषाख्यायै पृथककृतिः ॥२५९ एवं सर्वत्र नृपते विज्ञातव्यं मनीषिभिः । राजाऽभ्यधाद् भगवन्तः प्रकृतं व्याहरन्तु नः ॥२६० एवमामन्त्र्य प्रधानसामन्तान् वक्ति संवरः । भोः सप्तदशधा ख्याताः श्रीसंयममहाभटाः ॥२६१ दशधा विश्रुता धर्मवीरा उपशमादयः । अष्टादश शीलाङ्गानि सहस्रा मूलवर्गिकाः ॥२६२ ईर्यासमितिमुख्याश्चाष्टावपि प्रभुमन्त्रिणः । प्रभोश्चरित्रं श्रुत्वैतद् ब्रूत किं कार्यमात्मनः ॥२६३॥ त्रिभिर्विशेषकम् ततो विचार्य तैः सर्वैः कुमारस्य न्यवेद्यत । सुधीः कोऽपि स्वाम्युदन्तं सम्यग ज्ञा, निदिश्यते ॥२६४ तन्मुखात् स्वामिवृत्तान्तं सम्यक् श्रत्वा विचार्य च । यत् कर्तव्यं तच्च देवास्माभिर्विज्ञपयिष्यते ॥२६५ ततश्च मतिविभवः कुमारेणान्तरः पुमान् । स्वामिपार्श्वे प्रेषि तत्र चिरं स्थित्वा स चाययौ ॥२६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org