SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३९-२५२ ] Lila. - 12 चतुर्थ उत्साहः सम्यक्त्वं तत्र राजैको मिथ्यात्वमपरः पुनः । अविभक्ता देशभुक्तिः सङ्करेण द्वयोरपि ॥ २३९ पुरं सम्यक्त्वराजस्य जिनशासननामकम् । मिथ्यात्व भूपस्य कुदर्शनसमाह्वयम् ॥२४० पुनः आदेस्तत्त्वरुचिर्देवी तयोः पुत्रस्तु संवरः । सावद्ययोगविरतिः संवरस्य प्रियाssदिमा ||२४१ कर्मक्षयोऽङ्गजः । तपश्रीरपराssद्याया जज्ञे तपः श्रियः पुनः पुत्री निर्जरा नाम विश्रुता ॥ २४२ मन्त्री सम्यक्त्वराजस्य सर्ववेदी जिनागमः । इति सम्यक्त्वराजस्य परिवारप्ररूपणा ॥२४३ मिथ्यात्व नृपतेस्तत्त्वजुगुप्सा कुलप्रदीपस्तनयोऽनयोः प्राणवल्लभा । शुभदिनर्क्षभूः ॥ २४४ दैवज्ञेन च नक्षत्रबलेनोक्तमयं सुतः । भोक्ष्यते प्रतिपक्षस्य राज्यभुक्ति न संशयः ॥ २४५ पित्रा कृतास्रवनामा युवाऽसौ पर्यणाय्यत । विषयाभिलाषराजसुवाऽविरतिकन्यया Jain Education International ॥२४६ तयोश्चास्रवाविरत्योः कर्मबन्धस्तनूरुहः । मन्त्री कदागमो मिथ्यात्वस्यापीति प्ररूपणा ॥ २४७ इति राजद्वयनयाध्वना गच्छत्यनेहसि । विरतिप्रेयसीजुषः ॥ २४८ श्रीसंवरकुमारस्य तत्सख्या प्रेमशालिन्या न्यायखन्यानुकम्पया । विज्ञप्तमन्यदा देव राट्कुलेऽद्य महोत्सवः ॥२४९॥ युग्मम् व्याजहार कुमारस्तु सुभगे केन हेतुना । अनुकम्पा स्माह देव मिथ्यात्वनृपतेः सुतः ॥२५० अविरत्या समं पत्न्या कर्मबन्धसुतेन च । कुमार आस्रवाभिख्यः पुरीपरिसरे समेत् ॥ २५१ गौरवाय सबल: श्री सम्यक्त्वमहीपतिः । अभिगम्य मुदा तं प्रादेशयत् तन्महोत्सवः ॥ २५२ ॥ त्रिभिर्विशेषकम् For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy