________________
[२२५-२३८
लीलावतीसारे पणायता तेन तच्चाभाग्यतो निरगम्यत । तत्सत्यं पुण्यहीनस्य सुवर्ण मृत्तिकायते ॥२२५ पुनर्वारद्वयं देव्या दत्त वित्तं गतं च तत् । ततोऽसौ कुलदेव्येव तया त्यक्तो विपुण्यकः ॥२२६ अत्रान्तरे परिक्षीणं वीक्ष्येव प्राग्भवप्रभुम् ।। तं मायाचौर्यनामानौ सेवको परिचेरतुः ॥२२७ ततः कपटचौर्याभ्यां स्वजनान् विप्रतारयन् । मुमुचे स समस्तैस्तैः कदाचारमलीमसः ॥२२८ कपटश्रावकीभूय तत्सामाचार्यमाचरन् । श्राद्धान् गुरूंश्च देवांश्च सोऽमुष्णात् परिमोषिवत् ।।२२९ पर्यटन्नथ देशेषु चम्पापुयां जगाम सः ।। परिपाट्याऽथ चैत्यानि भावसारमिवानमत् ॥२३० कुर्वन्तं तं तथा वीक्ष्य श्रावको जिनरक्षितः । जगाद कुत आयातश्छद्मसद्म स ऊचिवान् ॥२३१ सम्मेतशैलशिखरे देवान् वन्दाप्यसेऽनघ । जिनजन्मादिभूमीश्च सद्गुरुंश्च पदे पदे ॥२३२ भोक्तुं न्यमन्त्रि स जिनरक्षितेनाथ गौरवात् । शठोऽसौ कृच्छतो मेने तेनाभोज्यत भक्तितः ॥२३३ अत्र यावदवस्थानं भोक्तव्यमिति चौच्यत । निषिद्धय बहुशोऽमस्त तच्छ्राद्धप्रार्थनावचः ॥२३४ स्थितः स्वगृहवत् तत्र स मायानाट्यरङ्गभूः । श्राद्धेन श्रद्धयाऽभाणि सायमावश्यके कृते ॥२३५ देवदिन्न महाश्राद्ध जिनधर्मविशारद । कथानकेन केनापि प्रथयामृतपारणाम् ॥२३६ स्मित्वा स स्माह वृद्धायाः पयःपानार्थना ह्यसौ । तर्हि श्रोत्रमनोमैत्रीं दृढयित्वा निशम्यताम् ॥२३७ अस्ति देशस्त्रिभुवनोदरनामाऽतिविश्रुतः । चतस्रो गतयो यत्र खण्डदेशाश्चकासति ॥२३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org