SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ २११-२२४] चतुर्थ उत्साहः यामधलिहदेवौकःशङ्गदन्तुरिताम्बराम् प्रतिष्ठते रविरथो दक्षिणेनोत्तरेण वा ॥२११ सुपार्श्वजिनजन्मादिकल्याणकमहोत्सवैः । या शिवहेतुरित्येव ख्याति शिवपुरीत्यगात् ॥२१२ तस्यां प्रचण्डदोर्दण्डखण्डितारातिकर्षरः । स्थाम्नाऽपि न परं नाम्ना राजाऽभूदरिकेसरी ॥२१३ प्रतापसिंहनादेन यस्यारातिमृगीदृशाम् । गर्भा निपेतुरुत्पेतुर्दिवि तेन हता द्विषः ॥२१४ तस्य निःशेषललनाशिरस्तिलकमञ्जरी । कामद्रोर्मञ्जरी जज्ञे देवी तिलकमञ्जरी ॥२१५ तत्प्रतिपन्नबन्धुः श्रीराट्प्रसादैकभाजनम् । धनाधिदैवत तत्र धनदेवो वणिग् बभौ ॥२१६ शीलोन्मीलद्यशोभद्रा यशोभद्राऽस्य वल्लभा । वल्लभाऽहनिशं यस्या वयस्या सकृपात्रपाः ॥२१७ नानोपयाचितशतैस्तस्यामुदरगह्वरे । स धनो नरकोवृत्तः पुत्रत्वेनोदपद्यत ॥२१८ क्रमाज्जाते तत्र पुत्रे राजा राज्ञी पुरं च तत् । स्वस्वश्रीगृहतां निन्युर्माङ्गलिक्येन तद् गृहम् ॥२१९ दशाहे च व्यतिक्रान्ते जन्माधिकमहोत्सवैः । देवदिन्न इति नाम पितरौ तस्य चक्रतुः ॥२२० कलाग्रहौचिती प्राप्तो ग्राहितस्ताः कुलोचिताः । स इभ्यपुत्र्याऽथ पित्रा समये पर्यणाय्यत ॥२२१ अत्रान्तरे धनभवोपात्तदुष्कर्मशेषतः । देवदिन्नस्य पितरौ दयिता च विपेदिरे ॥२२२ क्रमागत धनमपि तस्यानश्यत् तरङ्गवत् । ततः स देवदिन्नोऽभूदैन्यभाग् रोरपुत्रवत् ॥२२३ देव्या तिलकमञ्जर्या तत्पितृस्नेहसिक्तया । यथेप्सित वणिज्यायै मात्रेवास्य धनं ददे ॥२२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy