SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ IHR iliililain! लीलावतीसारे [१९७-२१० शौचमाचर्य तत्तीरे निविष्टः पुरुषद्वयम् । आयातमेव वीक्ष्याने बिभयामास सोऽधिकम् ॥१९७ ताभ्यां चोचे महाभाग कस्त्व कुत इहागमः । तदीयपेशलालापैर्धनो विस्रम्भभागभूत् ॥१९८ अवोचच्च नरेन्द्रोऽहं मूलिकार्थमिहागमम् । धनपृष्टावाख्यतां तौ चावां धातूपलाथिनौ ॥१९९ शठोऽभ्यधात् प्रस्तरैः किं मूलिकाः कामदाः खलु । तावाख्यातां मूलिका नौ प्रसादय शठोऽब्रवीत् ॥२०० कुर्वे कुबेरश्रियौ वां मूलधातूपलैविना । मयि प्रसन्ने भवतोः प्रसन्नं दैवमेव हि ॥२०१ महाप्रसादः किन्त्वेष ग्राम आसन्न आवयोः ।। पादोऽवधार्यतां तत्रेत्याख्यातां तौ स आशणोत् ॥२०२ तत्र प्राप्तस्य तस्यैतौ गौरव भोजनादिभिः । धनायन्तौ तथाऽधत्तां यथैच्छत् स्वगृहं न सः ॥२०३ निधिदर्शनहेमादिसिद्धयुदन्तैर्विमोह्य तौ । विश्रभ्य रात्रौ मुषित्वा तद्गृह स पलायत ॥२०४ निशान्ते च निशान्तेशौ व्यबुध्येतां चिरेण तौ । व्यबुध्येतां च सर्वस्वं हृत्वा स गतवानिति ॥२०५ ताभ्यां च पूत्कृते ग्रामग्रामणीः सपरिच्छदः । पदिकोक्ताध्वनाऽधावत् तं पराप च पापिनम् ॥२०६ अरे चौर व यासीति हक्कितः पत्तिभिर्धनः । विब्रुवन् पुब्रवः शल्यैर्यमकुल्यैरशल्यत ॥२०७ आच्छिन्नलोप्नधनको रौद्रध्यानधनो धनः । एकाध्यायुः प्रथमेऽथ नरके नारकोऽभवत् ॥२०८ क्षेत्रस्वभावात् परमाधार्मिकेभ्यः परस्परात् । स जाताभिर्यातनाभिर्दुष्कर्मात्राक्षिपदबहु ॥२०९ अथास्ति . भरते काशिदेशे वाराणसीपुरी । लङ्काऽलके यदाहूते मन्ये दुर्गमधिश्रिते ॥२१० २०४.४. पलायतः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy