SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [१७५-१८४ अपि च - उष्णांशूष्णकरोत्करव्यतिकरप्रोज्ज्वालसूर्योपल ज्वालाजालविचुम्बनादिव दवज्वालन्ति यत्रानिलाः । संशुष्णन्ति जलाशया ग्रहपतेर्बाद करापाततः पान्थानां यमकिक्करः स्फुरति स ग्रीष्मोऽतिभीष्मस्तदा ॥१७५ ततो धनोऽध्वखेदेन तापेनाथ तृषा क्षुधा । विश्रब्धघातपापस्य किङ्करैरिव पीडितः ॥१७६ पदमात्रमशक्तोऽपि गन्तुं पृष्ठभिया व्रजन् । तृषार्त्या मूर्छितो न्यग्रोधस्यैकस्य तलेऽपतत् ॥१७७॥ युग्मम् शिशिरानिलतो लव्धचैतन्यो जललिप्सया । दिशः पश्यन् धनोऽपश्यद् वनं घनमिवोन्नतम् ॥१७८ तत्राम्बुसम्भावनया स धनः प्रमना मनाक् । शीघमेव ततोऽचालीत् सरःपालीमथैक्षत ॥१७९ तं वीक्ष्येव नृपापकारिणमुपागच्छन्तमात्मान्तिके व्यासेद्धं किल तुङ्गभङ्गमिष तो हस्तानुदस्यत्तमम् । स्मेराम्भोजवनद्विरेफनिनदैः पक्ष्योधकोलाहलै: पूरकुर्वन्तमिवाब्धिविभ्रममथ प्रैक्षिष्ट पद्माकरम् ॥१८० ततोऽसौ जीवितं मन्ये विधायाङ्गावहेलिकाम् । पयः पपौ कणेहत्याभुङ्क्त रम्भाफलादि च ॥१८१ पालीतालीतले यावत् क्षणमास्ते स सौस्थ्यभाक् । तावत् करेणुकलभाजितं तत्सरोऽतिथिम् ॥१८२ विन्ध्याद्रेर्युवराजवत् सुरपतिस्तम्बेरमभ्रातृवद् दिग्दन्तावलकुल्यवन्मदनदीप्रोल्लासलीलाद्रिवत् । नानोद्यानसरःसरिद्दिरितटीश्रीणां महाकम्रवद् व्योमोत्पित्सुतया किलोच्छ्रितकरं व्यालोकयत् कुञ्जरम् ॥१८३॥ युग्मम् ततोऽसौ भयकम्प्राङ्गः प्रत्यासन्नमहावटे । आरुरोह दुरारोहे तेन वन्येभमृत्युना ॥१८४ १७५.२. दवज्ज्वालांति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy