SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १६२-१७४ ] चतुर्थ उत्साहः उत्क्षिप्य बाहुं सोऽप्यागाद्धनं धूनं शिरः पटम् । सामन्तास्तुष्टुवुर्भूपो दध्यौ वीक्षेऽस्मि किं न हि ॥ १६२ मन्ये प्रसून मे शुद्धा तूष्णीकोऽस्थात् ततो नृपः । धूर्तोऽवग् मुञ्च वासांसि मैतैः शोभाऽस्य नश्यतु ॥ १६३ राजाऽमुचत् ततस्तानि पर्यधाप्यत तं पटम् । इतस्तत: करौ कृत्वा मायया तेन मायिना ॥१६४ राजा स्पष्टं यथाजातमात्मानमभिवीक्षते । सामन्तास्तू चुरुत्कृष्टा पटश्रीर्वीक्ष्यते प्रभो ।। १६५ धूर्तो व्यज्ञपयद् देव पादचारिकया पुरे । पादोऽवधार्यतां सर्वे येनेक्षन्ते पटश्रियम् ॥१६६ राजाऽथ छत्ररोचिष्णुः सामन्तामात्यभूषितः । पादचारी पुरेऽभ्राम्यद् धृताशाम्बरदीक्षवत् ॥ १६७ स तु धूर्तः काकनाशं ननाश त्वरितं तथा । यथा न कैश्विद्वये सिद्धान्तर्धानसिद्धिवत् ॥ १६८ तद्धूर्तविद्यया मातृदोषापत्त्याङ्किता न ये । ते पौराः प्रोचुरुच्चैः भोः किं स्वाम्येष दिगम्बरः ॥१६९ ततः सर्वेऽप्यूचुरेवं सामन्तामात्यपूर्वगाः । पर्यधान् नृपतिर्वस्त्रे कुहकं मायिनोऽस्फुटत् ॥ १७० राट्पूरुषैर्वायुवेगैः कृतदीपैरिवाभितः । निरीक्ष्यते स्म स शठो न पुनः क्वापि वीक्षितः ॥ १७१ ततः प्रतिदिशं राज्ञः सैन्यानि प्रदधाविरे । न लेभे स तु धूर्तस्तैर्माययेव तिरोहितः ।।१७२ दिवा निलीय संस्थास्नुर्निशायामुत्पथे व्रजन् । मार्गान्मार्गीव जानानः स धनोऽगान्महाटवीम् ॥१७३ यस्यां द्यन्ति नगान् विषाणवलयोल्लासैरिभाः सैरिभा यस्यां च प्रसभं भ्रमन्ति परितो दावानला वानलाः । यस्यां सिंहनिनादमादधति ते कण्ठीरवा भैरवा यस्यां चातिभयंकरा न गणनां प्रापन्नगाः पन्नगाः ॥ १७४ १६३.१. शुद्धास्तू १७३.३. मार्गामार्गीव Jain Education International For Private & Personal Use Only ८३ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy