________________
लीलावतीसारे
[१४८-१६१ अस्मत्पटस्य महिमा श्रयतां देव ! साम्प्रतम् । अस्योपलभते रूपस्पशी कोऽपि न जारजः ॥१४८ यन्मातृशीलस्वर्णस्य पटोऽयं कषपट्टकः । अत एव यशोराजराजेनापूज्यत प्रसूः ॥१४९ अथ प्रविश्य गेहान्तस्तस्मै पटमदर्शयत् । मायया चालयन् हस्तौ हयोऽयं हस्त्यसाविति ॥१५० दध्यौ विग्रहराजोऽथ किञ्चित् पश्याम्यहं न हि । तत् किं माता मे न शुद्धाऽथवा शुद्धाः क्व योषितः ॥१५१ एकासक्ते किञ्च पत्यौ प्राप्नुवत्यो न वारकम् । ऋतुस्नाताः किं न कुर्युर्महेलाः कामहेलया ॥१५२ अथावहित्थामास्थाय सोऽभ्यधत्त धनं प्रति । नेक्षाञ्चक्रे शुश्रवे न पटरत्नमितीदृशम् ॥१५३ राज्ञोऽग्रेऽपि तथाऽऽख्यत् स ततो राजा प्रहर्पुलः । अन्यान्यान् प्रत्यह पुसः प्राहिणोत् प्रेक्षितुं पटम् ॥१५४ धूर्तो धनः पटशक्तिस्वरूपाख्यानपूर्वकम् । तान् मोहयामास सर्वानहो मायाविजम्भितम् ॥१५५ अये विग्रहराजेन दृष्ट नेक्षामहे पटम् । तन्नो मातुर्दोष इति ध्यात्वा तेऽप्यस्तुवन् पटम् ॥१५६ इति सर्व राजकुलं क्रमेणैष व्यमोहयत् । अहो मातृदोषापत्तिविद्यायाः स्फूर्जितं महत् ॥१५७ शीघ्रं ददानो दीनारांस्तस्य लक्षमदान्नृपः । तेनापि तद्विलसता पुरे न्यष्ठाप्यताखिलम् ॥१५८ राज्ञोचे कि पटः पूर्णः स्वामिन् संपूर्ण एव हि । मुहूर्त शोध्यतां देवाद्यैव मौहूर्तिकोऽवदत् ॥१५९ ततो राजा स्नातलिप्तः परिधित्सुश्च तं पटम् । तेन धूर्तेन कर्णान्ते स्थित्वा गुप्तमभण्यत ॥१६० जारजो नोपलभतेऽस्य रूपस्पर्शवैभवम् । राजा व्यचिन्तयद् वस्तुस्वरूपं बहुधा भवेत् ॥१६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org