________________
१३४-१४७]
चतुर्थ उत्साहः लक्ष्म्याः प्रकारमीदृक्षमेतैरेवास्मि शिक्षितः । मन्ब्याह देवागमोऽस्य दण्डः शिक्षा विधीयताम् ॥१३४ राजाऽऽख्यन् मन्त्रिन् यद्येव पृच्छयन्तां ते किराटकाः । युष्मत्सर्वस्वविंशांशं मुक्त्वाऽन्यल्लाति भूपतिः ॥१३५ निःशूकतानाचारौ हि युष्मदुक्त्या श्रियोऽनुगौ । तदा स्यातां चेद् वधो वः सर्वस्वापहृतौ भवेत् ॥१३६ ततो बुद्धिसमुद्रण गत्वा पृष्टो महाजनः । भणितं तेन यद्देवो मुञ्चेत् कोटिसमं हि तत् ॥१३७ गत्वा ततो मन्त्रिणोक्ते तदुक्ते नयसारराट् । आकार्य गाढं निर्भामुचत् सर्वान् प्रसादतः ॥१३८ धनो निर्विषयश्चक्रे पुत्राणां जीविका ददे ।। प्रतारयन् जनान् विष्वक् श्रीश्रावस्ती धनस्त्वगात् ॥१३९ तत्राप्यसौ स्तैन्यशाठ्यानुगतो भीमभू भुजम् । ददर्श तेन पृष्टश्च कस्त्वं भोः का च ते कला ॥१४० सोऽवग वैज्ञानिको दिव्यपटं राज्ञो वयाम्यहम् । पटस्वरूप कीदृग भोः स्वामिना किं न हि श्रुतम् ॥१४१ अमुकस्यामुकस्यापि राज्ञो व्यूतः पटो मया । . का सामग्री तदुत्पत्तौ स्वाधीना सा मम प्रभो ॥१४२ किन्तु स्वं स्वामिनापूर्य लक्षदीनारमानकम् । क्रमाद्देय तच्च तथा गृहं तत्कर्मकर्मठम् ॥१४३ भूपस्तस्याथ दीनारसहस्र वेश्म चार्पयत् । स जरत्कम्बलं द्वारि बध्वान्तविलसत्यलम् ॥१४४ क्रमक्रमेण लक्षाधं जगृहे तेन मायिना । राज्ञाऽन्यदाऽसौ पप्रच्छे निरपादि कियान् पटः ॥१४५ अर्घ देव मनाग न्यूनं निष्पन्नमिति सोऽभ्यधात् । प्रेष्यतां कोऽपि हि सुधीर्यों दृष्ट्वा स्वामिने वदेत् ॥१४६ अथ विग्रहराजाख्यः सामन्तः षि भू भुजा ।
गतौ च तो गृहद्वारे धनेनाथ न्यगादि सः ॥१४७ Lila.-11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org