________________
लीलावतीसारे
[ १२१-१३३ किं च दुःशीलतयेव दूनाम्येतेन वैरिवत् । ततः पित्रा साऽभिदधे सन्मार्गेण समं वज ॥१२१ श्रियाऽभाण्येष मनुते स्वं गरिष्ठं समन्ततः । न जानाति श्रिया हीनो लघुरस्मि तृणादपि ॥१२२ किञ्चैष सदसद्वादं कुर्वन् विश्वस्य दुर्भगः ।। तदनेन समं वार्तामपि कुर्वे न हि क्षणम् ॥१२३ किन्तु निःशूकताधाच्या सहैमि प्रत्ययो न चेत् । मामपि प्रतिजागर्वनाचारोऽशीलतामिव ॥१२४ आश्रुतं जनकेनाथ श्रीनिःशूकतया समम् ।
प्राप्ता पृष्ठे त्वनाचारस्तस्यायाति पदे पदे ॥१२५ यदा कर्ता पुंसा स्थितिरिति रमायाः प्रविदधे
तदा दोषः स्वामिन् क इव हि धनस्यापि धनिनः । यदाऽरण्यक्षोणी दहति दहनो दाहकतया
तदाऽजापालुस्य क्षितितिलक दोषोऽस्तु कतमः ॥१२६ नृपोऽथ श्रीनयसारोऽभाणीद् भो भोः पुरीवराः । भो महाजन वक्त्येष युष्मन्मतमुतान्यथा ॥१२७ तत्पक्षपाती कोऽप्याह स्वामिन्नेवं हि वीक्ष्यते । राजोवाच रुषाऽऽरक्षान् रुन्ध सर्वान् किराटकान् ॥१२८ धनस्याच्छिन्त सर्वस्वं कुटुम्ब चारकेऽस्यत । सुगुप्तमपि येनास्य द्रविणं गृह्यते मुखात् ॥१२९ तत् तथा विहितं तैश्चातिक्रान्तमिति तद्दिनम् । प्रागवग् माहिलो दुर्ग वक्ष्यस्याख्यानक पुनः ॥१३० ततः श्रेष्ठिभिरप्यूचेऽसौ पुरक्षयकारकः । अथ सत्यहरिः प्रोचे किमित्यारट्यते मुधा ॥१३१ केनापि राजमान्येन राजा विज्ञाप्यतां बहु । भूम्या स्खलितपादानां शरणं भूमिरेव हि ॥१३२ अथ बुद्धिसमुद्रेण मन्त्रिणा तैर्महीपतिः । बहु विज्ञापयाञ्चक्रे स च क्रद्धोऽभ्यधादिति ॥१३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org