________________
७२
१०७-१२०]
चतुर्थ उत्साहः यतोऽहमेकदा याताऽनया सह सजीविता । पुण्येनागां गृहं ताताधुना जाने न भावि किम् ॥१०७ ततो विहस्य दुःशीलतयोचेऽहमियं तथा । .. रन्तुं गते परमियं प्रधानास्मीति माद्यति ॥१०८ द्वितीयस्थानिकाऽसीत्यवहेलयति मां सदा । तच्छिक्षायै ततो योगशक्तिः प्रयुयुजे मया ॥१०९ कृष्टाऽथ लक्ष्मीर्दुर्वण्ठेर्नीता राजकुले हठात् । सद्यो विलब्धा डुम्बेभ्यो लक्ष्मीर्माद्यतु माद्यतु ॥११० रात्रौ नंष्ट्वाऽथ जीवन्ती सोपेत् पुण्यवत्यसौ । तात तत्कार्यतामस्याः पुनर्जन्ममहोत्सवः ॥१११ तिसृणामपि पुत्रीणामप्रीत्या विमना मनाक । पिताब्रतान्यतरेण भ्रात्रा ब्राझि सह व्रज ॥११२ ब्राह्म्यूचे दुःशीलताया अनाचारोऽधिकः पितः । कदर्थिताऽस्म्यनेनापि तदयं दूरतोऽस्तु मे ॥११३ भ्राता द्वितीयः सन्मार्गों युक्तोऽसौ किन्तु मे पितः । ज्येष्ठतां न ददात्येव प्रधानमन्य एष यत् ॥११४ यतमास्स्व यतं शेष्व यतं तिष्ठ यतं चर । यतं भुंक्ष्व यतं जल्प येन दुष्कर्म नायते ॥११५ सद्वादमिति कुर्वाणः स्वैरं मे राति नेरितुम् । तदसौ तिष्ठतु गृहे यस्तृतीयस्तु सोदरः ॥११६ दारिद्यनामा ते तात विसर्जय मया सह । यत् तेन सह याताया गुणो मेऽतीव तद्यथा ॥११७॥ त्रिभिविशेषकम् चिन्तयिष्याम्यहोरात्रं छन्दोऽलङ्कारलक्षणम् । सन्तोप्यनाधिदारिद्रयभ्रातृसान्निध्यतः पितः ॥११८ ततस्तेन सम पित्रा प्रेषि रन्तुं सरस्वती । श्रीस्तेन जगदे वत्सेऽनाचारेण समं वज ॥११९ सा स्माह न गमिष्यामि यन्न वेत्येष मन्दधीः ।
श्रियोऽनुगोऽस्मीति किन्तु स्वात्मान धुरि मन्यते ॥१२० ११०.१. लक्ष्मी दुर्बण्ठै . ११५.१. यतमास्व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org