________________
.
७
लीलावतीसारे
[९३-२०६ किमित्युक्ते भू भुजा वागूचेऽनावेद्य देव वः ।। एकदाऽस्म्येतया सार्धमाक्रीडे क्रीडितुं गता ॥९३ प्रसादाद्वोऽस्मि जीवन्ती कथञ्चिद्गृहमागमम् । अथाट्टहासात् सकरताले दुःशीलताऽवदत् ॥९४ सत्यं ताताहमनया सहागां रंन्तुमेकदा । न मेऽवकाशं दत्तेऽसौ कापि रुष्टा ततोऽस्म्यपि ॥९५ स्वां योगशक्तिमसृज ततस्तात सरस्वती । हा हा वराकी रङ्कीव शुष्ककण्ठा क्षुधातुरा ॥९६ विलक्षा क्षीणपक्षा च नावकाशमगात् क्वचित् । तत् सत्य प्रतिपद्दत्तं द्वितीयस्यां हि लभ्यते ॥९७॥ युग्मम् धिक्कारपात्रं नष्टाऽसावपश्यन्ती स्वपृष्ठतः । वेगेन गृहमायाता श्वासमप्यग्रहीत् पितः ॥९८ स्मित्वा राजाऽऽह तत् पुत्रि व्रज लक्ष्म्याऽनया सह । गीर्जगौ न यतोऽमुष्याश्छुटिताऽर्धमृतैकदा ।।९९ ततः पिताऽऽह हे लक्ष्मि किमेतदभिधीयते । साऽप्यूचे साधु यदहमिय चागाव खेलितुम् ।।१०० मया गौरविता ख्याति प्रापिताऽपि समन्ततः । कदाऽपि मम कार्याणि शीलयत्यसको न हि ।।१०१ किन्तु छन्दो भज्यतेऽत्र नालङ्कारोऽयमुत्तमः । घटते न पदार्थोऽयमपशब्दोऽयमीरितः ॥१०२ इत्यादिकं काचपिच्यं कुरुते मां च निन्दति । ततो मया योगशक्तिः स्फोरिता तात सर्वतः ॥१०३।। युग्मम् ततो रुद्धा सरस्वत्या दृष्टिलृप्ता तथा श्रुतिः । नष्टा स्मृतिर्गतिर्भग्ना वपुश्चाभूद् विशृङ्खलम् ।।१०४ विगुप्ता सा पलाय्याथ गुप्तमेवागता गृहम् । तत्पृष्ठतो हसमानाहमपीह समागमम् ।।१०५ राज्ञाऽभाणि पुनर्लक्ष्म्या सह दुःशीलते व्रज । लक्ष्मीजंगाद नो यामि पदमप्यनया समम् ।।१०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org