________________
७७
७९-९२]
चतुर्थ उत्साहः जइ फुल्ला कणियारया चूयय अहिमासयम्मि घुट्टम्मि । तुह न खमं फुल्लेउ जइ पच्चंता करिति डमरयाई ॥७९ तां श्रुत्वा चिन्तयामास राजपुत्री पवित्रधीः । हीना हीनेन यात्वेषा न मे युक्तमिद पुनः ॥८० सखि भूषाकरण्डी मे विस्मृतेति मिषादथ । दुर्लभा स्वगृह प्राप पापौ तौ निर्गतौ गतौ ॥८१ राजपुत्री तु सा पित्रा राटपुत्रेण वरीयसा । उद्वाहितेहितेनाऽभूद् भाजनं राज्यसम्पदाम् ॥८२ तदहो जना यदि कुविन्दसुतावदनीतिमादधति निर्धनकाः । तदयं धनोऽपि धनवाननय कुरुतामुतावनिपसू रिव मा ॥८३ ततो विज्ञापयाञ्चक्रे दुर्गादित्येन धीमता । आख्याम्याख्यानक किञ्चिद् देवाख्याहीत्यवग् नृपः ॥८४ अस्त्यदृष्टादिपर्यन्तं पुरं श्रीभुवनोदरम् । पुरान्तराणि यस्यान्तगृहाणीव चकासति ॥८५ तच्छास्तिकर्ता पुरुषो राजा त्रिभुवनेश्वरः ।। शल्यहस्ता इव यस्य त्रैलोक्येऽप्यधिपाः परे ॥८६ देवी कर्मपरिणतिस्तस्य सौभाग्यभाजनम् । रम्भागौरीशचीमुख्या यस्याः पादाब्जधाविकाः ॥८७ पञ्चप्रकारान् विषयाननिश भुञ्जतोस्तयोः । जज्ञेऽनाचारसन्मार्गदारिद्याख्यसुतत्रयम् ॥८८ पुव्यश्च तिस्रो वाग्देवीलक्ष्मीदुःशीलताभिधाः ।। यद्विलासलवै रम्यैर्विलसन्ति कुमारकाः ॥८९॥ युग्मम् राजा व्यज्ञपि पुत्रीभिरेकदा मदनोत्सवे । पितस्तव गिरा स्वैर पुरे दूरं रमामहे ॥९० . राजाऽऽख्यद् योषितां रन्तुमेकिकानां न युज्यते ।। मिलिता एव तद्वत्साः स्वेच्छातः क्रीडताभितः ॥९१ बभाषे भारती तात न दुःशीलतया समम् ।
पदमेकमहं यामि वाञ्छाम्यद्यापि जीवितुम् ॥९२ ७९.१. भूयय. ८९.२. रम्ये.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org