SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ २५-३७] ७३ चतुर्थ उत्साहः महामोदपरित्रस्तककुब्भास्तिकहास्तिकम् । इहास्ति हास्तिनपुरं कुरुमण्डलमण्डनम् ॥२५ कोटीध्वजध्वजक्षिप्तनभोध्वजकरबजे । पुरे तत्रोद्ययौ श्रीमान्नयसारो महीपतिः ॥२६ यन्न्यायघण्टाटक्कारस्त्रिलोकस्योदरंभरिः । अन्यायभूतानुद्भूतान् कांदिशीकानजीजनत् ॥२७ अनेकनैगममहाश्रेणिधुर्यतमासमः । महाधनो धनो नाम्ना श्रेष्ठी तत्राभवत् पुरे ॥२८ पितामहपितृमुख्यार्जितं दूरेऽस्तु वैभवम् । यदर्जति प्रत्यहं स संख्या तस्यापि नाप्यते ॥२९ तथा हि - जलस्थलाकरहट्टकलान्तरवणिज्यया द्विचतुष्पादशकटयानपात्रादिभाटकैः ॥३०. नानायोनिपोषकृषीष्टकाङ्गारादिकारणैः ।। कृत्रिमस्वर्णरुप्येन्दुकस्तूरी हिमुकुङ्कुमैः ॥३१ कर्पासान्नघततैलतुवरीलवणेधसां नीलीलाक्षासीसकायःशस्त्रादीनां च सङ्ग्रहैः ॥३२ लोष्टिकस्यापि यत्रायस्तैरारम्भपरिग्रहैः । अर्जत्यर्थमसौ नैव संतुप्यत्यौर्ववहिवत् ॥३३॥ चतुभिः कलापकम् व्ययं च लोप्टिकस्यापि प्रतीकच्छेदतोऽधिकम् । मन्यते सहते दुःखमर्थायैष दिवानिशम् ॥३४ प्रतिरूपक्रियाकूटतुलामानादिभिस्तथा .. जन वञ्चयते नित्यमिन्द्रजालिकलीलया ॥३५ तथाख्यातः पुरे सोऽथ ध्रियते ग्राह्यकैर्धनैः । हील्यते बन्धुभिर्मित्रैर्मुच्यते खाद्यते खलैः ॥३६ ततश्चारक्षमन्त्र्यादीन् लञ्चयोपचरत्यसौ । एवं शाठ्यस्तैन्यसखश्चिरमेष व्यवाहरत् ॥३७ । Lila.-10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy