SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ७२ लीलावतीसारे [११-२४ कृत्रिमान् स्वर्णरूप्येन्दुकस्तूरी हिगुककुमान् । ददाति वैदेशिकेभ्यः स मायानाट्यनाट्यकृत् ॥११ विवादे शपते कोशान् पिबत्यत्ति च तन्दुलान् । स्पृशत्यहीर्देवगुर्वोर्दत्ते सुकृतमात्मनः ॥१२ अलभ्यानपि हि द्रम्मान् कर्षत्युग्रसुराग्रतः । ततो देवचक्रपाते कुष्ठी स्यात् म्रियतेऽथवा ॥१३ अविश्वासात् त्यज्यतेऽपि बन्धुभिः स भुजङ्गवत् । ज्ञातस्तथा बध्यते चोदबध्यते च नियोगिभिः ॥१४ बन्धुभिर्मोचितो जातु निर्लज्जश्चौर्यमाचरेत् । ततः कालाक्षरीकृत्य मुच्यते सर्वबन्धुभिः ॥१५ चौर्यप्रसादादारोप्य रासभे भ्रमितः पुरे । वृक्षोबद्धो रौद्रमना नरके याति पातकी ॥१६ अनेहसमसङ्ख्येयं तत्राशर्मातिदारुणम् । सोढ्वा कथञ्चिदुद्वृत्तस्ततो जायेत चेन्नरः ॥१७ तत्रापि प्राग्भवाभ्यासान्मायावी स्तैन्यतत्परः । चैत्यादिमोष विश्रब्धघातनं कुरुते बहु ॥१८॥ युग्मम् ततो नानानर्थपातैः पश्चात्तापात् कथञ्चन । बद्ध्वा नरायुर्जायेत मनुष्यः कर्मलाघवात् ॥१९ तत्राप्यनार्यकार्याणि कृत्वा भूत्वाऽयशःपदम् । क्षुधातृषातों भ्रमति यथा राजन्नयं पुमान् ॥२० राजाऽऽख्यद् भगवन्नाहमस्मिन् पर्षत्सरस्वति । जाने सामान्याभिधाने तत् स्पष्टं ब्रूहि तं प्रभो ॥२१ ततः प्रभुर्जगौ योऽयं मरुकूपगभीरदृक् ।। अजापतिसक्कूर्चः क्रमेलकशिरोधरः ॥२२ निमीसदीर्घजङ्घाकः शीर्णवक्रासमक्रमः । त्वदक्षिणे त्रिपुरुषांन्तरितः सैष बुध्यताम् ॥२३॥ युग्मम् व्यजिज्ञपत् पुनर्भूपः किमत्रामुत्र दुष्कृतम् । कृतमेतेन भगवानूचे राजन् निशम्यताम् ॥२४ १३.३. चकपाते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy