SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उत्साहः अथ श्रीविजयसेनश्चतुर्भिः तैः परिष्कृतः । परिप्कृतं चतुर्ज्ञान्या गुरुं नन्तुमगात् पुनः ॥१ भगवंश्चौरिकादम्भमिथुनस्य स्वलक्षणम् । सुलक्षं कुरु येनात्र दद्मः प्रहरकं वयम् ॥२ क्षुब्धाद्रिक्षुब्धदुग्धाब्धिनिर्यत्पीयूषजिद्ध्वनिः । श्रीसुधर्मप्रभुः प्रोचे श्रीराजेन्द्र निशामय ॥३ प्राणिनां दम्भसंरम्भः स्यान्नित्यं चौरिकाप्रियः ।। किञ्चिन् मुमुषिपुर्यस्मान् मायी मायां समाचरेत् ॥४ ततश्च - देवान् गुरून् पितृन् भ्रातृन् श्वशुरान् मातुलानपि । मित्राणि पुत्रपौत्रांश्च स्वजनान्यजनानपि ॥५ मायाप्रपञ्चचतुरो बकोटाकारधारकः । प्रतारयन् भवत्यत्र परत्रानर्थभाजनम् ॥६॥ युग्मम् तथा हि - पूजाव्याजाद् भावसारो देवस्याभरणादिकम् । देवस्य गोष्ठिको भूत्वा कोशं मुष्णाति पातकी ॥७ मायाश्राद्धमुनीभूय हा ! मुष्णाति गुरूनपि । पित्रादेविनयीभूय सर्वस्वं हरते शठः ॥८ कृत्वा न्यासापहारं च सख्ये द्रुह्यति मूढधीः ।। अनुक्त्वा स्वं क्रमायातं पुत्रादेम्रियते स्वयम् ॥९ स्वजनान् परजनांश्च विश्वासोत्पादनाद् दृढम् ।। मायी वञ्चयते नित्यं नानाकैतववैभवः ॥१० ९.४. पुत्रादेनियते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy